पृष्ठम्:काव्यालङ्कारः (रुद्रटः).pdf/१६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६ ४ काव्यमाला । तदिति विरचनीयः सम्यगेष प्रयत्ना- द्भवति विरसमेवानेन हीनं हि काव्यम् ॥ ३८ ॥ अनुसरतीति । सुगमम् ।। इति श्रीरुद्रटकृते काव्यालंकारे नमिसाधुविरचितटिप्पणसमेत श्चतुर्दशोऽध्यायः समाप्तः । ass = पञ्चदशोऽध्यायः । छङ्गारं व्याख्यायाधुना वीरादीनां विभागभावानुभावलक्षणं कारणत्रयं तथा नायका नायकगुणांश्च प्रत्येकं क्रमेणाह- उत्साहात्मा वीरः स त्रेधा युद्धधर्मदानेषु । विषयेषु भवति तस्मिन्नक्षोभो नायकः ख्यातः ॥ १ ॥ नयावनयबलपराक्रमगाम्भायादायशॉयशाटायुः । युक्तोऽनुरक्तलोको निघृढभरो महारम्भः ॥ २ ॥ उत्साहात्मेति । नयेति । गतार्थं न वरम् । उत्साहः स्थायी भावः । धर्मदानयुद्धलक्षणं च विषयत्रयं विभागः । नायकगुणा एवानुभावः । तेजो रणे च सामर्थे बलम् । रिपूणां बलादाक्रमणं पराक्रमः । गाम्भीर्यमलङ्घमध्यता । दानमभ्युपपत्तिश्च तथा च प्रियभा घणम् । स्वजनेऽथ परे वापि तदौदार्यं प्रचक्षते । ।’ समरैकत्वं शौर्यम् । सत्यपि त्यागका रणे योग्यकार्यस्यात्यागः शौटीर्यम्। धैर्यमित्यर्थः । अथ करुणः करुणः शोकप्रकृतिः शोकश्च भवेद्विपत्तिः प्राप्तेः। इष्टस्यानिष्टस्य च विधिविहतो नायकस्तत्र ॥ ३ ॥ अच्छिन्ननयनसलिलप्रलापवैवण्र्यमोहनिर्वेदाः । क्षितिचेष्टनपरिदेवनविधिनिन्दाश्चेति करुणे स्युः ॥ ४ ॥ करुण इति । अच्छिन्नेति । सुगमं न वरम् । शोकः स्थायिभावः । इष्टानिष्टविपत्ति प्राप्ती विभागः । अच्छिन्ननयनाडुप्रद्युतिरेंनुभावः ।। अथ बीभत्सः भवति सा तु दर्शनाच्छूवणात् । जगप्साप्रांतबोभत्सः संकीर्तनात्तथेन्द्रियविषयाणामत्यहृद्यानाम् ॥ १ ॥ हृङखननिष्ठीवनमुखकूणनसर्वगात्रसंहाराः । उद्वेगः सन्त्यस्मिन्गाम्भीर्यान्नोत्तमानां तु ॥ ६ ॥