पृष्ठम्:काव्यालङ्कारः (रुद्रटः).pdf/१४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१४८ काव्यमाला । उत्पाद्यामाह मुक्ताफलजालचितं यदीन्दुबिम्बं भवेत्ततस्तेन । विपरीतरते सुतनोरुपमीयेताननं तस्याः ॥ ३१ ॥ मुक्ताफलेति । अत्रोपमानस्येन्दुबिम्बस्य मुक्ताफलजालचितमिति विशेषणं कृतम् । न तु मुखस्योपमेयस्य श्रमवारिकणचितत्वादि ॥ अथासंभव: उपमानं यत्र स्यादसंभवत्तद्विशेषणं नियमात् । संभूतभयद्यर्थं विज्ञेयोऽसंभवः स इति ॥ ३२ ॥ उपमानमिति । स इत्यनेन प्रकारेणासंभवो नाम दोषः । यत्रोपमानमसंभवत्तद्विशे षणमसंभाव्यविवक्षितधर्मकमपि नियमान्निश्चयेन संभूतं तद्विशेषणयुक्तं स्यात् । ननु तर्हि ‘पुष्पं प्रवालोपहितं यदि स्यान्मुक्ताफलं वा स्फुटविद्रुमस्थम्’ इत्याद्यपि दुष्टं स्यादि । त्याह--अयद्यर्थम् । यद्यर्थविकलं यदि क्रियते । सयंद्यर्थे तु न दोषः ।। उदाहरणमाह सुतनुरियं विमलाम्बरलक्ष्योरुमृणालमूललालित्या।। अजलप्रकृतिरदूरस्थितमित्रा गगननलिनीव ॥ ३३ ॥ सुतनुरिति । अत्र विशेषणत्रयमपि तन्वीगगननलिन्योः समानम् । परं यदि गगने नलिनी संभवेत्तदा तन्वीसदृशी भवेत् । अतो यद्यर्थे दुष्टता । अथाप्रसिद्धिः उपमानतया लोके वाच्यस्य न तादृशं प्रसिद्धं यत् । क्रियते यत्र तदुत्कटसामान्यतयाप्रसिद्धिः सा ॥ ३४ ॥ उपमानतयेति । यत्किमपि वस्तु लोके वाच्यस्योपमेयार्थस्योपमानतया न प्रसिद्धमथ च तथा क्रियते साप्रसिद्धिदोष:। कदाचिद्वाच्येन सह विसदृशं स्यादथवा तादृशं तुल्य- मपि यदि न प्रसिद्धं कथं क्रियत इत्याह--उत्कटसामान्यतया । अतिसादृश्यादित्यर्थः ।। उदाहरणमाह पद्मासनसंनिहितो भाति ब्रह्मेव चक्रवाकोऽयम् । श्वपचश्यामं वन्दे हरिमिन्दुसितो बकोऽयमिति ॥ ३५ ॥ पझेति । इह ब्रह्मकेशवचन्द्राणां क्रमेण पद्मासनत्वेन २यामत्वेन सितत्वेन च चक्रवा कश्वपचबकाः समाना अपि न तदुपमानत्वेन प्रसिद्धाः । यत्र तु प्रसिद्धिस्तत्र भवत्येव । यथा-‘नमामि शंकरं काशसंकाशं शशिशेखरम् । नमो नुताय गीर्वाणैरलिनीलाय वि क्षणवे ॥' इत्यादि । ननु कथम् ‘भवन्तमेतर्हि मनस्विगर्हिते विवर्तमानं नरदेव वर्मनि। कथं न मन्युर्वलयत्युदीरितः शमीतरुं शुष्कमिवाभिरुच्छिखः ’ इत्यादिवौपम्यम् ।

.