पृष्ठम्:काव्यालङ्कारः (रुद्रटः).pdf/१४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११ अध्यायः] काव्यालंकारः । १४७ रिति । वैषम्ये पुनरुभे अप्यसमाने ते । तहेि लिङ्गादिभेद एव स्वरूपेण किं नक्त इत्याह--भिद्येत किंचितु । तुरवधारणे । तत्सामान्याभिधायिपदं लिङ्गादिभेदेऽपि किं चिदेव भिद्यते, न सर्वम् । ततो यत्रैव तस्य भेदस्तत्रैव दोषःन सर्वत्र ।। एतदुदाहरणानि यथाक्रममाह- चन्द्रकलेव सुगरो वात इव जगाम यः समुत्सृज्य । दहतु शिखीव स कामं जीवयसि सुधेव मामालि ॥ २७ ॥ चन्द्रकलेति । काचिद्विरहिणी सखीं ब्रूते-आलि सखि, यथा चन्द्रकला सुगौरी तथायं सुगरः । इति लिङ्गभेदे । यथा वातो गच्छति तथा मां समुत्सृज्य यो जगाम । इति कालभेदे । भूतकालो वर्तमानेन भग्नः सनुपमाने योज्यते । दहतु शिखीव स कामम् । इति कारकभेदे । विधिविशिष्टो हि कर्ता कर्तुमात्रेण शिखिनोपमितोऽत्र । जीवयसि सुधेव मामालि । इति विभक्तिभेदे । मध्यमपुरुषो हि प्रथमपुरुषेण विपरिण म्योपमाने योज्यते । कुवलयदलमिव दीर्यं तव नयने इत्ययं तु सुव्यक्तः । युक्त्या तावदोषो विद्वद्भिरपि प्रयुक्तश्च ॥ २८ ॥ कुवलयेति । कुवलयदलमिव दीर्घ तव नयने । इति वचनभेदे। दीर्घ इति द्विवच- नान्तं वृकवचनान्तं कृत्वा योज्यते । नन्वेवं लिङ्गादिभेदे दोषीकृते महाकविलक्ष्यम् ‘तां हंसमालाः शरदीव गङ्गम्इत्यादिकं कालादिभेदस्य विद्यमानत्वात्प्रायशः सर्वमेव दूष्यत इत्याह-इत्ययं त्वित्यादि । तुरवधारणेः । युक्त्या तावदयं सुव्यक्त एव दोषः । ततो ऽस्माभिरुक्तः। उक्त च पूर्वमेव ‘काव्यालंकारोऽयं ग्रन्थः क्रियते यथायुक्ति’ (१ । २ ) इति । विद्वद्भिरपि प्रयुक्तवेत्यनेन दोषस्याप्यपरिहार्यतामाह ।। वैषम्यमाह अकृतविशेषणमेकं यत्स्यादुभयोस्तदन्यवैषम्यम् । संभवति कल्पितायामुत्पाद्यायां च नान्यत्र॥ २९ ॥ अकृतेति । उभयोरुपमानोपमेययोर्मध्यादेकमुपमानमुपमेयं वा निर्विशेषणं भवेत्तदस्या कृतविशेषणस्य कुतविशेषणेन सह वैषम्यम् । तच्च कल्पितायामुत्पाद्यायां चोपमायां संभवति ॥ विपरीतरते सुतनोरायस्ताया विभाति मुखमस्यः । श्रमवारिबिन्दुजालकलाञ्छितामिव कमलमुत्फुछम् ॥ ३० ॥ विपरीतरत इति । इवशब्दो भिन्नक्रमे । कमठस्योपमानस्य न किंचिदवश्यायजल कणनिकुरम्बाधितत्वादिकं कृतम् । कल्पितोपमेयम् ।।