पृष्ठम्:काव्यालङ्कारः (रुद्रटः).pdf/११७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

< अध्यायः ॥ काव्यालंकारः । ११७ अथोभयन्यासमाह सामान्यावप्यथ स्फुटमुपमायाः खरूपतोऽपेतौ । निर्दिश्येते यस्मिन्नुभयन्यासः स विज्ञेयः ॥ ५ ॥ सामान्याविति । यत्र प्रकटं विद्यमानसामान्यावषि द्वावथौ तुल्यकक्षतया कृत्वा तथा प्युपमाया यत्स्वरूपं ततो व्यपेतौ निर्दिश्यते । उपमायां हि सामान्यस्येवादेश्च प्रयोगः इह तु नैवेत्यर्थः । स उभयन्यासो ज्ञेयः । सकलजगत्साधारणविभवा भुवि साधवोऽधुना विरलाः । सन्ति कियन्तस्तरवः सुस्वादुवुगन्धिचारुफलाः ॥ ६ ॥ सकलेति । अत्र साधव उपमेयास्तरव उपमानानि । तेषां तुल्यकक्षतया निर्देशः । न तु सताप्युपमानोपमेयभावेनेति ।। अथ भ्रान्तिमान् अर्थविशेषं पश्यन्नवगच्छेदन्यमेव तत्सदृशम् । निःसंदेहं यस्मिन्प्रतिपत्ता भ्रान्तिमान्स इति ॥ ७ ॥ अथेति । यत्र प्रतिपत्तार्थविशेषमुपमेयलक्षणं पश्यंस्तत्सादृश्यादन्यमेवार्थमुपमानल क्षणं निःसंशयमवबुध्येत स इत्यमुना प्रकारेण भ्रान्तिमान्नामालंकारः । उदाहरणम् पालयति त्वयि वसुधां विविधाध्वरधूममालिनीः ककुभः । पश्यन्तो दूयन्ते घनसमयाशङ्कया हंसाः ॥ ८ ॥ पालयतीति । अत्र यज्ञधूमधारिण्यो दिश उपमेया वर्षाकालउपमानम् । तत्रै- वावगति । अथाक्षेपः वस्तु प्रसिद्धमिति यद्विरुद्धमिति वास्य वचनमाक्षिप्य । अन्यत्तथात्वासज्य यत्र ब्रूयात्स आक्षपः ॥ ८९ ॥ वस्त्विति । यत्र वक्ता यत्किमपि लोके प्रसिद्धमिति विरुद्धमिति वा कारणाद्वस्तु भूतं वर्तते, अस्य वचनमाक्षिप्य ततश्चान्यद्वस्वन्तरं तथात्वसिब्यै तस्य स्वरूपस्य सिब्यर्थं ब्यास आक्षेपो नामालंकारः ।। तत्र प्रसिद्धस्योदाहरणमाह-- जनयति संतापमसौ चन्द्रकलाकोमलापि मे चित्रम् । अथवा किमन्न चिनं दहति हिमानी हि भूमिरुहः ॥ ९० ।