पृष्ठम्:काव्यालङ्कारः (रुद्रटः).pdf/११६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला । ११६ उदाहरणमाह तुङ्गानामपि मेघाः शैलानामुपरि विदधते छायाम् ।। उपकर्तुं हि समर्था भवन्ति महतां महीयांसः ॥ ३० ॥ तुङ्गानामिति ।अत्रोपमेयविशेषं मेघपर्वताख्यं तुङ्गत्वादि युक्तमभिधाय सामान्यमुपमानं महल्लक्षणमुपन्यस्तम् ।। द्वितीयमाह सकलमिदं सुखदुःखं भवति यथावासनं तथाहीह । रमयन्तितरां तरुणीर्नखक्षतादीनि रतिकलहे ॥ ८१ ॥ तकलमिति । अत्र सामान्यरूपेणैव सुखदुःखादियुक्तं सकलमुपमेयमुक्त्वा ततो व विशिष्टं नखक्षताद्युपमानमुक्तम् ।। अयं चार्थान्तरन्यासः साधम्र्यप्रयुक्तसामान्यविशेषद्वारेण चतुर्विधो भवति । तत्र साधम्र्येण भेदद्वयमुक्तम् । वैधम्र्येणाह- पूर्ववदभिधायैक विशेषसामान्ययोर्हितीयं । तु तत्सिद्धयेऽभिदध्याद्विपरीतं यत्र सोऽन्योऽयम् ॥ ८२ ॥ पूर्ववकेचिद्भैणोपेतमुकंवा ततस्तद्धर्म पूर्ववदिति । यत्र विशेषसामान्ययोर्मध्यादेकं सिद्धये द्वितीयं सामान्यं विशेषं वा विपरीतं विधर्मकं कविब्रूयात्सोऽन्योऽयमर्थान्तरन्यासः । उदाहरणमाह अभिसारिकाभिरभिहतनिबिडतमा निन्द्यते सितांशुरपि। अनुकूलतया हि नृणां सकलं स्फुटमभिमतीभवति ॥ ३ ॥ अभिसारिकाभिरिति । अत्र शशी अभिसारिकाश्च विशेषावुपमेयौ पूर्वमुक्तौ, ततो । नृणां सकलमिति सामान्यं वैधम्र्येणोक्तम्। निन्द्यत इत्यस्य ह्यभिमतीभवतीति विरुद्धम् । द्वितीयमाह — हृदयेन निर्दूतानां भवति नृणां सर्वमेव निर्हतये । इन्दुरपि तथाहि मनः खेदयतितरां प्रियाविरहे ॥ ४ ॥ हृदयेनेति । अत्र सामान्यमुक्त्वा विशेघो वैधम्र्येणोक्तः । अथायं कोऽलंकारः। यथा प्रियेण संग्रथ्य विपक्षसंनिधावुपाहितां वक्षसि पीवरस्तने । स्रजं न काचिद्विजौ जला विलां वसन्ति हि प्रेम्णि गुणा न वस्तुनि । नह्यत्रौपम्यसद्भावोऽस्तीत्यर्थान्तरन्यासा । भास इति ब्रूमः । भामहादिमतेन त्वर्थान्तरन्यास एव । ‘अर्थद्वयस्य न्यासः सोऽर्थान्तर न्यासःइति तदीयलक्षणात् ।