पृष्ठम्:काव्यमाला (नवमो गुच्छकः).pdf/९०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। 1 छन्नं क्षीरं पिपासोर्निटिलशशिकलां यत्र पुत्रस्य मत्वा दुर्गाधीशो महेशः करमपि स ददौ तत्स्थमाराभिनुन्नः ।।.४२॥ पटासक्तं वक्षोजनियुगमपूर्वं गिरिपतेः सुकन्ये मन्ये ते नवसुभगसारिद्वयमिति । यदुत्तुङ्गोत्सङ्गे मृगधरधराक्षानुसरणं कराजव्यापारैः सममनिशमुन्मूलतितराम् ॥ १३ ॥ धयत्येतौ धाता जगदखिलमेतद्रचयितुं तथा पातुं विष्णुः पिबति हरजाये तव कुचौ । इति प्रेक्ष प्रेक्षं स्वयमपि हरों मर्दयति तौ जगत्संमर्दायाभ्यसति किमु विद्यामभिनवाम् ॥ ४४ ॥ भवेतां क्षेमाय स्मरहरवधूरोजकरिणौ ययोरेका रोमावलिकपटशुण्डाद्भुतकरी । महादेवस्वान्तप्रचुरतरकासारगतया. अया तव्द्यापाराम्बुजमपह्रतं क्रीडनविधौ ॥ ४५ ॥ उदच्चन्तौ मातस्तव कुचहरी हृहरिमुखा- त्कुरङ्गानां तारौ शिवहृदटवी सीमनिहताम् । निहत्यैनः श्रेणीमदुरधिरोहद्विपपतिं प्रकुर्वाणौ मुक्तावलिमयमिदं यौ त्रिभुवनम् ॥ ४६ ॥ तवेमौ वक्षोजौ वृजिनहरणौ दिव्यहरिणा- वहं ध्याये मातर्दिविजतृणराश्यअरवरौ । विरूपाक्षस्वान्तोपवनवरयात्रा चिरतरं ययोरस्ति स्माराभिधशबरघाटीव्यतिकरे ॥ ४७ ।। दृढं कूर्पासेन प्रतिपिहितमुर्वीरसुते भवानि त्वद्क्षोरुहयुगलमीडे तदनिशम् । स्मरन्तं वैरं तं, स्मरमपरमासाद्य 'सुहृदं स्थितं संलीयेति व्यथयति हरो यत्पटगृहे ॥ १८ ॥