पृष्ठम्:काव्यमाला (नवमो गुच्छकः).pdf/८९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

चण्डीकुचपञ्चाशिका । यद्भोगेकदृशः पिशाचनृपतेर्वक्षःस्थले जाग्रती चित्रा कापि विसंस्थुला नमत तत्कण्डूरखण्डाभवत् ।। ३५ ।। दिग्दन्तावलकुम्भमौक्तिकमणिश्रेणीकमेणीदृशः शर्वाण्याः कुचगुच्छयुग्ममवतासंसारतापाद्भुतन् । यस्योपान्तसमुत्पतत्पशुपतिव्यालोलसाभिस्फुर- ल्लीलापाङ्गतरङ्गभृङ्गसुभगैः शृङ्गाररङ्गायियत् (?) ।। ३६ ।। स्मरारातेः स्वान्तप्रकटकुमुदं मोदयति यो हृदाकाशस्थस्तदननयनाब्जं मुकुलयन् । दधच्चूचं लक्ष्म प्रकटयति चक्राह्वयुगलं निहन्त्वद्रेः कन्याकुचविधुरघध्वान्तपटलीम् ॥ ३७॥ पालेयाचलकन्यकाकुचतटीपाटीरमोट्टायिता पापाटोपकठोरकष्टपटलान्यापाट्यन्तीं स्तुमः । यत्रापीनपिनाकपाणिकठिनोरःपीठकण्ठोल्लुठ- व्ध्यालालीवलयाबलेखमकरोदालिङ्गनेऽन्योन्यतः ॥ ३८ ॥ मातः पर्यभिवादये सुरपुरोधानान्तरालोल्लस- द्भूजन्यप्रसवासवावसथमुद्र्वक्षोजकोषद्वयम् । “यस्यान्तः परमेश्वरस्य करतः संमर्दनव्यापृतौ भूतिः संक्षरति क्षपापरिवृढार्भप्रेड्यचूडामणेः ॥ ३९ ॥ परिधीमहिते कुचस्थली मणिकान्तिधुनदीनभःस्थलीम् । शिवपाणिनखेन्दुमण्डलीं निजमौलौ विनिधाय या स्थिता ॥ ४०॥ मातुर्नौमि पयोधरौ त्रिजगतामारम्भकुम्भौ शुभौ भावत्को मुवि तौ भवप्रियतमे भाव्यक्षतौ भासुरौ । यौ श्रीकण्ठकरप्रवाललतिकामूर्धस्फुरत्पल्लवौ षड़ऋद्विरदाननावनवनोजन्माभिलीढौ चिरम् ॥ ११ ॥ वक्षःपीठे पटाढ्यं मितविबुधधुनीनिझरैश्चाभिषिक्तं मातर्वक्षोजराजं शितपत्रिमणिरूक्चामरं ते नमामि