पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

आनन्दमन्दिरस्तोत्रम् । टांकारतारनिनदेन पलायिताभू- दैत्येन्द्रवृन्दपृतना दलनापि यस्य । चण्डांशुचण्डकिरणोत्कटकाण्डखण्डं कोदण्डमाक्षपयतादघमण्डलं मे ॥ ८७ ॥ श्रीमत्सुवर्णघटितोद्भटसौधमुग्ध- वातायनागतमरुञ्चयलोलचोलाम् । तुङ्गामरैर्मृदुमृदङ्गनिनादभङ्गि- नीराजितां नगसुतां महितां नमामि ॥ ८८ ।। पीयूषपूरपरिपूरितसत्तडाग- कल्लोललोलकमलोल्लसितामुदाराम् । हारावलीवृततनुं शुभशारदेन्दु- गौरां परां सुरुचिरां प्रणमामि ताराम् ॥ ८९ ।। सौवर्णसौधवलभीगृहराजमानां नानामरीविधृतचामरवीज्यमानाम् । कर्पूरपूरपरिपूरितपात्रवर्ति- नीराजितां नगमुतां महितां नमामि ।। ९० । स्वर्णाद्रिरम्यशिखरोपरिसंस्थितां तां नम्रामरीमुकुटसन्मणिकान्तिकान्ताम् । मन्दारदामकलितां ललितां नितान्तं कान्तां शिवस्य मुदितां महितां नमामि ॥ ९१ ।। कल्पद्रुमोल्लसितमूलविराजमाना तत्स्यन्दमानमकरन्दकदम्बसान्द्रा । निर्यत्य रागचयपिञ्जरिताङ्गभङ्गी भङ्गीकरोतु कलुषं नगनन्दिनी सा॥ ९२ ।।