पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

$ काव्यमाला । माद्यन्मृगेन्द्रमहिता स न राजमाने रम्यामरीमुकुटसन्मणिनन्द्यमाने । नन्दत्कवीन्द्रकविताभरभासमाने श्रीविन्ध्यवासिनि कुरुष्व शिवं समाने ।। ८१ ॥ देवि प्रतापतपने तपति त्वदीये व्यर्थ व्यधायि रविरेष विदग्धधात्रा। मत्वेत्यहो नवनवं प्रतिमासमर्कं कुर्वन्ननेन विजिते मनुते शठं स्वम् ॥ ८२ ।। मातुः सुधांशुधवला तव कीर्तिहंसी याता सरीरुहजनेः सदने समाना । तेनापि मूर्ध्नि विधृता धनमानदानं तच्चित्रचित्रमधिकं हृदि भासते नः ।। ८३ ॥ दैत्येन्द्रवृन्ददलनं निजदक्षरक्षा- पक्षाश्रितं किल विलक्षणकान्तिकान्तम् । शैलावलीन्द्रजनुषः शरणानुकूलं शूलं मम क्षपयतात्कलुषद्रुमूलम् ॥ ८४ ।। कल्पान्तकोपिशिवकायकषायकान्ति- श्चण्डांशुचण्डकरमण्डलतीक्ष्णधारः । कात्यायनीकरकुटीरसरीसृपेन्द्रः कौक्षेयकः क्षपतान्मदपक्षलक्षम् ।। ८५ ॥ शत्रूच्चमात्रगुरुगोत्रविचित्रगोत्र- चित्रासनैकचतुरा रुचिरा च पर्वा । शर्वाम्बुजातनयना करसंनिविष्टान् कष्टान्गदा दलयतान्मम संनिकृष्टान् ॥ ८६॥