पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/१९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

चण्डीशतकम् । इच्छां विनैव आपतितघनतराश्लेषसौख्या प्राप्तसदृढालिङ्गानसुखा । उत्प्रेक्षते- क्लान्तेवोपेत्य । यो हि क्लान्तो भवति स क्वाप्यालम्बनमिच्छति ॥ आस्तां मुग्धेऽर्धचन्द्रः क्षिप सुरसरितं या सपत्नी भवत्याः क्रीडा द्वाभ्यां विमुच्चापरमलममुनैकेन मे पाशकेन । शूलं प्रागेव लग्नं शिरसि यदबला युध्यसेऽव्याद्विदग्धं सोत्प्रासालापपातैरिति दनुजमुमा निर्दहन्ती दृशा वः ॥२७॥ इतीत्थं सोत्प्रासाः समनास्सिता य आलापास्तेषां पातैर्विदग्धं चतुरं दनु- जं महिषं दशा निर्दहन्ती उमा वोऽव्यात् । इतीति किम् । हे मुग्धे, अर्ध- चन्द्रो बाणविशेषश्चन्द्रार्ध च आस्तां तिष्ठतु । अनेन तव भर्तृमूर्धस्थितेनार्ध- चन्द्रेण किमपराद्धं वराकेणेति भावः । सुरसरितं गङ्गां क्षिप या भवत्याः सपत्नी वर्तते । अस्थानकोपवती त्वमत एव मुग्धापदेन संबोध्यसे । अमुनै केन पाशकेनाल्पपाशेन द्यूतसाधनेनाक्षेण मे चालम् । अपरं द्वितीयमपि पा- शकं मुञ्च । यतः क्रीडा द्वाभ्यां पाशकाभ्यां भवति । एकेन क्रीडितुं न श- क्यते । कालमायुधं व्याधिश्च । शूलं किमिति त्यजसि । मम शिरसि प्रागेव शूलं रोगविशेषो लग्नम् । यतो मया सहाबला योषियुध्यसे । इदमकीर्ति- रूपं शूलम् । यद्वा अहं सबलः ससैन्यः, त्वं पुनरबला एकाकिनीति । इदम- कीर्तिरूपं शूलं मम शिरसि लग्नमेव ॥ वक्राणां विक्लवः किं वहसि बत रुचं स्कन्द षण्णां विषण्णा- मन्याः षण्मातरस्ते भव भव सकलस्त्वं शरीरार्धलब्ध्या । जिह्मा हन्म्यद्य कालीमिति सममसुभिः कण्ठतो निर्गता गी- र्गीर्वाणारेर्ययेच्छा1मृदुपदमृदितस्याद्रिजा सावताद्वः ॥ २८॥ यथेच्छया मृदुपदमृदितस्य कोमलचरणन्यासचूर्णीकृतस्य गीर्वाणारेमहि- षस्य कण्ठतोऽसुभिः प्राणैः सममिति गीर्वाङ निःसृता सा अद्रिजा पार्वती वोऽव्यात् । इतीति किम् । हे स्कन्द, त्वं विक्लवः सन् षण्णां वक्राणां रुचं कान्तिं विषण्णां बत खेदे किं वहसि । यतोऽन्याः कृत्तिकारूपाः षट् मातरस्ते १. 'यदृच्छामृदु-.