पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/१८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। मृद्गती चूर्णयन्ती उमा वस्त्रायताम् । इतीति किम् । हे शार्ङ्गिन् विष्णो, बाणं विमुञ्च । बाणं तन्नामानं दैत्यं शरं च । असौ बलिरिति भ्रमसि भ्रान्तिं क- रोषि । बाणः केन संयतः । त्वं बलिबन्धनकर्ता अतस्तव बाणमोक्षो युक्त इति भावः । हे गोत्रारे इन्द्र, ते रिपुमहं हन्मि । एषोऽमररिपुर्महिषो गो- त्रस्य स्वकुलस्य शत्रुः। यतो देवा दैत्याश्च काश्यषेयाः। अतोऽयमपि गोत्रा- रिः, तस्माद्गोत्रारिद्वयं नोचितमित्येनं तव रिपुं हन्मीति भावः । अत एव दैत्या अपि शास्यन्ते हे दैत्याः, मन्महे मदीयोत्सवेऽज इव च्छाग इव महिषो हन्यते, अतोऽयं महिषो द्राक्शीघ्रं व्यापाद्यतामद्य । देवीपर्वणि च्छागो हन्यत एव ॥ स्पर्धावर्धितविन्ध्यदुर्भरभरव्यस्ताद्विहायस्तलं हस्तादुत्पतिता प्रसादयतु वः कृत्यानि कात्यायनी यां शूलामिव देवदारुघटितां स्कन्धेन मोहान्धधी- र्वध्योद्देशमशेषबान्धवकुलध्वंसाय कंसोऽनयत् ॥ २५ ॥ स्पर्धया पराभवेच्छया वर्धितो यो विन्ध्यस्तद्वदुर्भरो यो भरस्तेन व्यस्ता- द्विकलास्तात् । अर्थात्कंसस्य । विहायस्तलं गगनतलमुत्पतिता कात्यायनी वः कृत्यानि कार्याणि प्रसादयतु प्रसन्नानि निर्विघ्नानि करोतु । यां कात्यायनी- मशेषबान्धवकुलध्वंसाय मोहान्धधीः कंसो देवदारुघटितां शूलमिव स्कन्धेन वध्योद्देशं वध्यप्रदेशमनयत् ॥ तूर्णं 1तोषात्तुराषाट्प्रभृतिषु शमिते शात्रवे स्तोत्रकृत्सु क्लान्तेवोपेत्य पत्युस्ततभुजयुगलस्यालमालम्बनाय । देहार्धे गेहबुद्धिं प्रतिविहितवती लज्जयालीय काली कृच्छ्रं वोऽनिच्छयैवापतितघनतराश्लेषसौख्या विहन्तु ॥२६॥ पत्युर्देहार्धे गेहबुद्धिं प्रतिविहितवती काली वः कृच्छ्रं विहन्तु । किं कृत्वा । शात्रवे महिषे शमिते तुराषाट्प्रभृतिषु इन्द्रादिषु तूर्णं तोषास्तोत्रकृत्सु सत्सु लज्जयालीय लीना भूत्वा । महान्तो हि प्रत्यक्षप्रशंसया सुतरां लज्जन्ते। कथंभूतस्य पत्युः । आलम्बनायालं ततभुजयुगलस्य । अत एवानिच्छयैच १. 'रोषात्'.