पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वभागः । दितसोमः, पद्मनिकर इव दिवसकरमरीचिपः, नदीतटतरुरिव सततजलक्षालन विमैलजटः, करिकैलभ इव विककुमुददलशकलसितदशनः, द्रौणिरिव कृपानुगतः, नक्षत्रराशिरिव चित्रमृगकृत्तिकालेषोपशोभितः, धर्मकालदिवस इव क्षेपितयहुदोषः, जलधरसमय इव प्रश मितरजःप्रसरः, वरुण इव कृतोदवासः, हरिरिवापनीतनरकभयः, प्रदोषारम्भ इव संध्या- पिङ्गलतारकः, प्रभातकाल इव बालातपकपिलः, रविरथइव टँढनियमिताक्षचक्रः सुराजेव । लेति । कोमलं सुकुमारं यद्वल्कलं चोचं तेनावृतमाच्छादितं शरीरं यस्य स तथा । अस्यापि मुनित्वेन वल्कल धारित्वात्साम्यम् । गिरिरिवेति । गिरिः पर्वतस्तद्वदिव | उभयोः साम्यमाह - समेखल इति । सह मेखल्या मौज्या वर्तते यः स तथा । पक्षे मेखलाद्रेर्मध्यभागस्तया सह वर्तमान इत्यर्थः । राहुरिवेति | राहुः सैंहिकेयस्तद्वदिव । एतयोः साम्यमाह-असकृदिति । असकृन्निरन्तरमाखादितः सोमो ज्योतिष्टोमयागसा- धनद्रव्यं येन स तथा । एतेनात्यन्तसोमयज्ञकारित्वं सूचितम् । पक्षेऽसकृद्वहुवारमास्त्रादितो ग्रस्तः सोमश्चन्द्रो येनेति विग्रहः । पद्मेति । पद्मानां कमलानां निकरः समूहस्तद्वदिव । उभयोः साम्यमाह - दिवसेति | दिवसकरस्य सूर्यस्यातपभयान्मरीचीन्पाति रक्षति स तथा । पक्षे सूर्यविकासित्वात्सूर्यमरीचीन्पाति पिबति यः स तथेति विग्रहः । नदीति | नद्यास्तटिन्यास्त प्रतीरं तस्मिंस्तरावृक्षस्तद्वदिव । उभयोः सादृश्यमाह - सत- तमिति | सततं निरन्तरं त्रिसायं जलेन पानीयेन क्षालनं तेन विमला जटाः सटा यस्य सः । पक्षे सततजल- क्षालनेन विमला जटा अवरोहा यस्येति विग्रहः । करीति | करिणां हस्तिनां कलभस्त्रिंशदव्दको गजस्तद्व- दिव । उभयोस्तुल्यतामाह - विकचेति | विकचानि स्फुटानि कुमुदानि कैरवाणि तेषां दलानि पर्णानि तेषां शकलानि खण्डास्तद्वत्सिताः शुभ्रा दशना दन्ता यस्येति स तथा । उभयसाम्यादभन्नश्लेषः । द्रौणिरिवेति । द्रौणिरश्वत्थामा तद्वदिव | उभयोः शब्दसाम्यमाह- कृपेति । कृपा दुःखहानेच्छा तयानुगतः राहितः । पक्षे कृपः कृपाचार्यस्तेनोपगत इति विग्रहः । नक्षत्रेति । नक्षत्राणां तारकाणां राशिः समूहरतद्वदिव | अनयोः सा- म्यमाह-~चित्रेति । चित्रमृगस्य कृत्तिका चर्म तेनाश्लेषः संवन्धस्तेन उपशोभितः शोभां प्राप्तः । पक्षे चित्रा लाष्ट्री, मृगो मृगशिरः, कृत्तिका प्रसिद्धा, आश्लेषा साप, ताभिरुपशोभितः । धर्मेति । धर्मकाल उष्णका लस्तरय दिवसो दिनं तद्वदिव | उभयोः साम्यमाह - क्षपित इति । क्षपिताः क्षयं प्रापिता वहवो दोषा रा गादयो येन सः । पक्षे क्षपिता वही दोषा रात्रिर्येनेति विग्रहः | जलेति | जलघरसमयः प्रावृकालस्तद्वदिव | उभयोस्तुल्यतामाह–प्रशमितेति । प्रशमितः शान्ति प्रापितो रजःप्रसरः प्रवर्तकगुणव्यापारो येन सः | पक्षे प्रशमितो रजःप्रसरो धूलि विस्तारो येनेति विग्रहः । वरुण इति । वरुणः प्रचेतास्तद्वदिव | उभयोः साम्यमाह - कृतोदेति । कृतो विहित उदवासो व्रतविशेपो येन सः । पक्षे कृतः उदकेषु वासो निवासो येनेति वि ग्रहः । उदकस्योदादेशः । हरीति | हरिरिच कृष्ण इव | उभयोरैक्यमाह - अपनीतेति । अपनीतो दूरीकृतो नरको दुर्गतिः तद्भयं येन सः | पक्षे नरकनाम्नो दैत्यस्य भयं येनेति विग्रहः । प्रदोषेति । प्रदोपो यामिनीमुखं तस्यारम्भः प्रारम्भस्तद्वदिव | उभयोरैंक्यमाह --संध्येति । संध्या दिवसरजन्योः संधिस्तद्वलिङ्गला तारैव