पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४८ कादम्बरी । भ्युद्यतः खसमीपवर्तिनामुपरि संचरतां गगनतलगमनखदायासिताना रविरथतुरङ्गमाणां सुक्कपरिघुतैः फेनपटलैः संदेहिततूलराशिभिर्धवलीकृत शिखरशाखः, वनगजकपोलकण्डूयन- लग्नमदनिलीनमत्तमधुकरमालेन लोहशृङ्खलावन्धननिश्चलेनेव कल्पस्थायिना मूलेन समुपेतः, कोटराभ्यन्तरनिविष्टैः स्फुरद्भिः सजीव इव मधुकरपटलैः, दुर्योधन इवोपलक्षितशकुनिपक्ष- पातः, नलिननाम इव वनमालोपगूढः, नवजलधरव्यूह इव नभसि देर्शितोन्नतिः, अखिलभु- वनतलावलोकनप्रासाद इव वनदेवतानाम् ,अधिपतिरिव दण्डकारण्यस्य, नायक इव सर्ववन- स्पतीनां, सखेव विन्ध्यस्य, शाखाबाहुभिरुपगुह्येव विन्ध्याटवीं स्थितो महाजीर्णः शाल्मली तत्र च शाखाग्रेषु कोटरोदरेषु पल्लवान्तरेषु स्कन्धसंधिपु जीर्णवैल्कविवरघु महावकाश- । तस्य या श्रीस्तामिव अवलोकयितुं द्रष्टुं अभ्युद्यतः उद्यतः । स्वसमीपेति । धवलीकृतः शुश्रीकृतः शि. खरस्याग्रस्य शाखा यस्य स तथा । कैः । फनपटलैः कफसमूहः । कीदृशैः । संदेहितः संदेह विषयीकृतस्तूलरा. शिरवाजकापराक्रपिण्डो यस्ते तथा तैः । स्वेति । खस्य समीपवर्तिनां निजनिकटवर्तिनामुपयूंचं संचरतां गच्छनाम् । अथ च गगनतलमाकाशतलं तत्र यद्गमनं संचरणं तेन यः खेदः प्रयासस्तेनायासितानां खिन्ना- नां रविरचतुराजमाणां सूर्यरथाश्वानां मुकमोष्टप्रान्तस्ततः परिखतैः पतितः फेनपटले: । वनेति । वन- गजा अरण्यकरिणस्तयां कपोलयोः कण्ड्यनेन खयनेन लग्नो यो मदो दानं तत्र निलीना लग्ना ये मत्ता गधुकरा भ्रमरास्तेषां माला यस्यैवंभूतन । 'गोस्त्रियोरुपमर्जनम्य' इति हरवः । अतो नेल्यसाम्यालोहस्य या शृङ्खलान्दुःकरतेन बन्धन नियन्त्रणं तन निचलेने व स्थिरणे बातएव कल्पस्थायिना कल्पान्तं तिष्टता । एतेन खभ्यातिवृद्धबन शैथिल्य निवृत्त्यै भ्रमरबेटनस्य कटिवन्धनत्वं प्रदर्शित मिति भावः । एतादशेन मूलेन बुध्ने- न ममुपंतः संयुक्तः । कोरिति । कोटरो निष्कुम्त ग्याभ्यन्तरं मध्यभागस्तत्र निविष्टः प्रविष्टः स्फुरद्भिर्दी- प्यमानैर्मधुकरपटले गरसमुहैः सजीव इव श्वासादिप्राणयुक्त इव । भ्रमराणामन्तश्चारित्वेन तदुपमानम् । दुर्योधनति । दुर्योधनी गान्धारीतनयस्तद्वदिव । उगयोः सादृश्यमाह-उपेति । उपलक्षितो दृग्विषयी- कृतः शकुनीनां पक्षिणां पक्षाणां छदानां पाता यस्मिन्स तथा।पक्ष शकुनी मातुले पक्षपाताजीकारो यस्यति विग्रहः। नलिनेति । नलिननाभः कृष्णस्तद्वदिव । उगाः गादृश्यमाह-वनेति । वनमालया वनश्रेण्यो- पगूढ आच्छादितः । पक्षे वनमाला भूपणविशेपस्तेनोपगूढ आलिङ्गितः । नवेति । नवा नूतना ये जलधरा मेघास्तेषां व्यूहः समूहस्तद्वदिव । उभयोः साम्यमाह-नमसीति । नभस्याकाशे दर्शितोन्नतिर्येन स तथा । उभयोः साम्यत्वादभगश्लेपः । अखिलेति । अखिलानि रामग्राणि यानि भुवनतलानि तेपामवलोकनं नि- शक्षणं तदर्थ प्रासादो देवगृहं स इव । कासाम् । वनदेवतानामरण्याधिष्ठात्रीणां सुरीणाम् । दण्डक इति । दण्डकनाम्नोऽरण्यस्य वनस्साधिपतिरिव स्वामीय । नायकेति । नायक इवाध्यक्ष इव । कासाम् । सर्वति । पुष्पं विना फलं येषां ते वनसतयसंपां सर्वेषाम् । सखेति । सखेव मित्रमिव । कस्येत्यपेक्षायामाह--