पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वभागः । १५ धरामण्डलस्थानमिव जलपूरितम् , अनवरतमजदुन्मदशवरकामिनीकुचकलशलुलितजलम् , उत्फुलकुमुदकुवलयकह्रारम्, उन्निद्रारविन्दमधुट्रैववद्धचन्द्रकम, अलिकुलपटलान्धकारित. सौगन्धिकम् , सारसितसमदसारसम् , अम्बुरुहमधुपानमत्तकलहंसकामिनीकृतकोलाहलम् , अनेकजलचरपतङ्गशतसंचलनचलितवाचालवीचिमालम् , अनिलोल्लासितकल्लोलशिखरसीक- रारब्धदुर्दिनम् , अशङ्कितावतीर्णाभिरम्भःक्रीडारागिणीभिः स्नानसमये वनदेवताभिः केशंपा- शकुसुमैः सुरभीकृतम्, एकदेशावतीर्णमुनिजनापूर्यमाणकमण्डलु कैलजलध्वनिमनोहरम, 3. मिषदुत्पलवनमध्यचारिभिः सवर्णतया रसितानुमेयैः कादम्बैरासेवितम, अभिषेकावतीर्ण- पुलिन्दराजशर्वरीकुचचन्दनधूलिधवलिततर, उपान्तकेतकीरजःपटलबद्धकलपुलिनम, आ- श्यात्तदुपमानम् । जलेनेति । जलेन गानीयेन पूरितं पूर्णमादिवराहेण तृतीयावतारेण चराहरूपण सम्यकप्रकारेणोद्धृतं जलाहिरानीतं यद्धरामण्डलं भूमिमण्डलं तस्य स्थानमिव । अनवरतेति । अनवरतं निरन्तरं मजन्त्यः स्लानं कुर्वत्यो या उन्मदा गर्वाधिष्ठिताः शवराणां भिल्लानां कामिन्यस्तासां कुचौ तावेव कलशौ ताभ्यां लुलितमालोडितं जलं पानीयं यस्य तत्तथा । उत्फुल्लेति । उत्फुल्लानि विकमितानि कुगुदानि कैरवाणि कुवलयानि कुवेलानि कहाराणि सौगन्धिकानि यस्मित्तत्तथा । उन्निद्रेति । उन्निद्राणि विकसितानि यान्यरविन्दानि क्रमलानि तेषां मधु रसुरतस्य यो द्रवः कलकरतस्य बद्धा मयूरपिच्छचन्द्राकारिणो चन्द्रका यारस- स्तत्तथा । अलीति । अलीनां भ्रमराणां यानि कुलानि तेषां पटलं समूहरतेनान्धका रितानि संजातान्धकाराणि सौगन्धिकानि कहाराणि यस्मिस्तत्तथा । 'सौगन्धिकं तु कहारम्' इति कोशः । सारसिनेति । महार शितेन शब्दितेन वर्तमाना अतएव समद। मदोत्कटाः साररा।ः पक्षिविशेषा यस्मिन् । अम्बुरुहेति । अम्बुरुहाणि कमलानि तेषां यन्मधु तस्य पानं तेन मत्ताः कलहंसकामिन्यो वरटास्ताभिः कृतः कोलाहलो यरिंग । अने- केति। अनेके सहस्रशो ये जलचरा नकचकादयः पतङ्गाः पक्षिणस्तपो यच्छतं तस्य संचलनं गमनं तेन चलिताः क्षोभं प्राप्ता वाचाला मुखरा वीचयो लहर्यरतासां मालाः श्रेण्यो यस्मिन् । अनिलेति । अनिलेन वायुनोल्लासिता उल्लासं प्रापिता ये कल्लोला लहर्यस्त एवोच्चत्वाच्छिखराणि तेषां सीकरैरम्बुकणेरारब्धं विहितं दुर्दिनं मेघ तमो यस्मिन् । स्वानेति । स्नानसमय आप्लवक्षणे वनदेवताभिर्वनाधिष्ठात्रीभिः केशपाशः केश- कलापस्तस्य कुसुमानि प्रसवानि तैः सुरभीकृतं सीगन्थ्यमापादितम् । कुसुमैरित्यत्र क्रियासिद्धयुपकारकत्वेन क- रणे तृतीया । इतो वनदेवता विशेषयन्नाह–अशङ्कितेति । शङ्कारहितं यथा स्यात्तथावतीर्णागिरन्तःप्रवि- टाभिः । शाराहित्यं च प्रेक्षकजनाभावात् । अम्भःक्रीडायां जलक्रीडायां रागो यासां ताभिः । पुनरत देव विशेषयन्नाह-एकदेशेति । एकदेश .एकभागस्तत्रावतीर्णोऽन्तःप्रविष्टो यो मुनिजनस्तेनापूर्यमाणानि जलेन भ्रियमाणानि यानि कमण्डलूनि पात्र विशेषाणि तेषां कलो मधुरो यो जलध्वनिः पानीयशव्दम्तेन मनोह. रमभिरामम् । कादम्वेति । कादम्वाः कलहंसास्तैरा समन्तात्सेवितं पर्युपासितम् । अथ कादम्बान्विशि- निािरमिपन्ति विकसन्ति ग्रान्यप किवठयानतेप नं खण्डरतन्मध्यचारिभिस्त-