पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वभागः। यत्र च दशरथवचनमनुपालयन्नुत्सृष्टराज्यो दशवदनलक्ष्मीविभ्रमविरामो रामो महा- मुनिमगस्त्यमनुचरन्सह सीतया लक्ष्मणोपरचितरुचिरपर्णशालः पञ्चवट्या कंचित्कालं सु- खमुवास । चिरशून्येऽद्यापि यत्र शाखानिलीननिभृतपाण्डुकपोतपयोऽमललग्नतापसाग्नि- होत्रधूमराजय इव लक्ष्यन्ते तरवः । बलिकमकुसुमान्युद्धरन्याः सीतायाः करतलादिव सं- क्रान्तो यत्र रागः स्फुरति लताकिसलयेषु । यत्र च पीतोद्गीर्णजलनिधिजलमिव मुनिना नि- खिलमाश्रमोपान्तवर्तिपु विभक्तं महादेपु । यंत्र च दशरथसुतनिकरनिशितशरनिपातनिहत- रजनीचरखलबलरुधिरसिक्तगूलमद्यापि तद्रागाविद्धनिर्गतपलाशमिवाभाति नवकिसलयम- रण्यम् । अधुनापि यत्र जलघरसमये गम्भीरमभिनवर्जलधरनिवह निनादमाकर्ण्य भगवतो ग़ामस्य त्रिभुवनविवरव्यापिनश्चापघोषस्य स्मरन्तो न गृहन्ति शष्पकवलमजस्लमश्रुजलल- कीकृतो यः सागरः समुद्रस्तरय मार्गः पन्थास्तमनुगतयेवानुसृतयेव । वेणीति । वेण्येव वेणिका । बद्धा नेणिका यया सा तथा । 'वेणी धारारयश्च' इति कोशः । यत्र चेति । यत्र यस्मिन्नाश्रमपदे दशरथनन्दनो नाम रामो महामुनिमगस्त्यमनुचरननुगच्छन्कंचि- त्कालं पावट्यां जनस्थाने सीतया जानक्या सट सुखं यथा स्यात्तथोबास बसति चक्रे । किं कुर्वन् । दशर- थस्य राज्ञो बननमाज्ञामनुपालयन्यथा गिर्दिष्टः तथैव समाचरन् । इतो रामं विशेषयन्नाह-उत्सृऐति । उत्गृष्टं लक्त राज्यं येन रा तथा । दशेति । दशवदनस्य दशाननस्य या लक्ष्मीः श्रीस्तस्या विभ्रमो विला- सतस्य विरामोऽवसानं यस्मात्स तथा । लक्ष्मण इति । लक्ष्मणेन सौमित्रिणोपरचिता कृता रुचिरा मनोहरा पर्णशालोटजी यस्मै रा तथा । अथ त यत्र यस्मिन्नाश्रमपद चिरकालशून्येऽद्याप्येतत्कालपर्यन्तं तरवो लक्ष्य- न्ते दृश्यन्त इत्यन्वयः । इतः पादपाविशेषयन्नाद--शाखेति । शाखासु शालासु निलीनाः संलग्ना निभृत- गलार्थ पाण्डवः श्रेता ये कपोता रतलोचनास्तेषां पतयः श्रेणयो येषु ते तथा। कीदृशा इव । अमला निर्मला लगाखापराानां तपस्विनां यदग्निहोत्रं तस्य धूमानां राजिर्येष्वेवंभूता इव लक्ष्यन्ते । यत्र चेत्यस्य सर्वत्रानुषङ्गः। वलीति । वलिकर्मार्थ कुमुमान्युद्धरन्त्याः पुष्पावचयं कुर्वत्याः सीताया जानक्याः करतलादिव' विनिर्गतः रान । लताकिसलयेषु संक्रान्तो रागः स्फुरति स्फूर्तिमान्भवति । यत्र चेति । मुनिनागस्त्येन पूर्व पीतं पश्चा- दुद्गीण च तनिखिलं जलनिधिजलगिवाश्रमोपान्तवर्तिषु महादेपु विभक्तं दृश्यते । यत्र चेति । नवानि प्रत्यग्राणि किरालयानि यस्मिन्नेवंभूतमरण्यं अद्यापि आगाति शोभत इत्यन्वयः । तदेव विशिनष्टि-- दशरथेति । दशरथस्य सुतो रामस्तस्य निशिताः तीक्ष्णा ये शरास्तेषां यः निकरः समूहस्तस्य निपातेन निहता ये रजनीचरा राक्षसाः पुण्यजनास्तेषां यदलं सैन्यं तत्संवन्धि यद्हलं विस्तृतं रुधिरं रक्तं तेन सितं मूलं ग्रस्य । अतएवाद्यापि तद्रागेणाविद्धानि युक्तानि निर्गतानि पलाशपुष्पाणि यस्मिन्नेवंभूतमिव । अधुनापीति ! सांप्रतमपि यत्र यस्मिजलधरसमये वर्षाकाले जीर्णमृगा वृद्धहरिणाः शष्पं वालतृणं तस्य