पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वभागः । दमरपतितनुरिव नेत्रसहस्रसंकुला, कचिन्नारायणमूर्तिरिव तमालनीला, कचित्पाथरथपता- केव कप्याक्रान्ता, कचिदवनिपतिद्वारभूमिरिव वेत्रलताशतदुःप्रवेशा, कचिद्विराटनगरीव कीचंकशताकुला, कचिदम्बरश्रीरिव व्याधानुगम्यमानतरलतारकमृगा, कचिद्गृहीतव्रतेव दर्भचीरजटावल्कलधारिणी, अपरिमितहलपत्रसंचयापि सप्तपर्णोपशोभिता, क्रूरसत्त्वापि मुनिजनसेविता, पुष्पवत्यपि पवित्रा विन्ध्याटवी नाम । तस्यां च दण्डकारण्यान्तःपाति, सकलभुवनविख्यातम् , उत्पत्तिक्षेत्रमिव भगवतो धर्मस्य सुरपतिप्रार्थनापीतसकलसागरजलस्य, मेरुमत्सराद्गनतलप्रसारितविकटशिरःसहस्रेण दिव- सङ्क्रामस्तस्य भूगिरिव । उभयोस्तुल्यतामाह-शरेति । शरा मुजदण्डास्तेषां शतं तेन निचिता व्याप्ता । पक्षे शरा वाणास्तेपां शतैर्निचितेति विग्रहः । क्वचिदिति । अमराणां देवानां पतिः प्रभुरिन्द्रस्तस्य तनुरिव शरीर मिव । उभयोः साम्यमाह-नेति । नेत्राणां वृक्षविशेषाणां सहस्रं तेन संकुला । यद्वा ! नेत्राणां जटानां सहस्रं तेन संकुला । 'जटांशुकयोर्नेत्रम्' इत्यमरः । पक्षे नेत्राणां चक्षुषां सहस्रं तेन संकुलेति विग्रहः । क्वचिदिति । नारायणरय कृष्णस्य मूर्तिरिव शरीरमिव । उभयोः साम्यमाह-तमालेति । तमा. लैक्षविशेपैनीला । पक्षे तमालवन्नीला । क्वचिदिति । पार्थोऽर्जुनरतस्य रथः स्यन्दनस्तस्य पताका वैजयन्ती सेव । उभयोस्तुल्यतामाह-कपीति । कपिभिर्गौलालेराक्रान्ता । पक्षे कपिचिलोपयुक्तेत्यर्थः । क्वचि- दिति । अवनिपती राजा तस्य द्वारभूमिरिव । उभयोः सादृश्यमाह-वेत्रेति । वेत्राणि वृक्षविशेषाः लता वन्यश्च तासां शतं तेन दुःप्रवेशा दुःखेन प्रवेष्टुं शक्या । पक्षे वेत्रलता वेत्रयष्टिः । सरलबालतोपमानम् । ताभिर्दुःप्रवेशेल्यर्थः । कचिदिति । क्वचित्प्रदेशे विराटराजनगरी तद्वदिव । उभयोः साम्यमाह'-.. कीचकेति । कीचकाः सच्छिद्रवेणवस्तैराकुला । पक्षे कीचकानां स्वप्रियाबान्धवानां शतं तेनाकुला व्यग्रा । कचिदिति । अम्बरमाकाशं तस्य श्रीरिव । उभयसादृश्यमाह-व्याधेति । व्याधैरनुगम्यमानास्तरला भयविह्वलास्तारकमृगा विचित्रमृगा यस्यां . सा । पक्षे व्याधेनानुगम्यमानस्तरलतारकामृगश्चन्द्रनक्षत्रं यस्यामिति विग्रहः । महादेवेन व्याधरूपधारिणा हतं (?) तस्याध मृगनक्षत्रमिति प्रसिद्धम् । क्वचिदिति । गृहीतेति । गृहीतमात्तं व्रतं नियमो यया सैवंविधेव । उभयतुल्यतामाह-दर्भेति। दीः कुशाः, चीराणि तृण विशेषाणि, जटा शिफा, वल्कलानि चोचानि, एतानि धर्तुं शीलमस्याः सा तथा । पक्षे दर्भचीराणि पूर्वोक्तानि, जटाः संहताः कचाः । 'शिफाटजे संहतो कचौ' इत्यनेकार्थः । चल्कलानि प्रतीतानि तेषां धारणं विद्यते यस्या इति विग्रहः । अपरीति । अपरिमितान्यगणितानि बहलानि निविडानि पत्राणि पर्णानि तेषां संचयः समूहो यस्यामेवंभूतापि सप्तपर्णोपशोभितेति विरोधः । तत्परिहारपक्षे सप्तपर्णोऽयुक्छदस्तेन शोभाय- मानेत्यर्थः । रेति । क्रूरं सत्त्वं मनो यस्याः संबंविधापि मुनिजनसेवितेति विरोधः। 'सत्त्वं द्रव्ये गुणे चिंत्ते व्यवसायस्वभावयोः' इत्यनेकार्थः। तत्परिहारपक्षे क्रूरा हिंसाः सखाः प्राणिनो यस्यामिति विग्रहः । मुनिजनत. पोम ह म्य करा कर जयम । पपवतीति । पूर वत्य त त्यस पवित्रेति विरोधः । गता इत्यत्र