पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वभागः । ४०१ विविधव्याधिपरिवृतं स्वकुटुम्बमिवोहता, मूर्खतमापि वहुव्यसनानुगता प्रसूतानेकापत्या- मिव दर्शयता, क्रोधमप्यनेकदण्डाभिंघातनिर्मितबहुगात्रगण्डूकं फलितमिव प्रकाशयता, क्लेशमपि सर्वावयवज्वलितदीपिकादाहव्रणविभावितं बैहुमुखमिव प्रकटयता, परिभवमपि निष्कारणाकृष्टजनपददत्तपदाकृष्टिशतं प्रवाहमिव दधानेन, शुष्कवनलता विनिर्मितवृहत्कुसुम- करण्डकेन, वेणुलतारचितपुष्पपातनाङ्कशिकेन, क्षणमप्यमुक्तकाल कम्वलखण्डखोलेन जरद्द- विडधार्मिकेणाधिष्ठितां चण्डिकामपश्यत् । तस्यामेव च वॉसमरचयत् । अथावतीर्य तुरगात्प्रविश्य भक्तिप्रवणेन चेतसा तां प्रणाम | कृतप्रदक्षिणश्च पुनः प्रणम्य प्रशान्तोदेशदर्शनकुतूहलेन परिभ्रमन्नु चैरारटन्तमाक्रोशन्तं च कुपितं द्रविडधार्मि- कमेकदेशे ददर्श | दृष्ट्वा च कादम्बरीविरहोत्कण्ठोद्वेगदूयमानोऽपि सुचिरं जहास | न्यवार- यच्च तेन सार्धं प्रौरब्धकलहानुपहसतः स्वसैनिकान् । उपसान्त्वनैश्च कथमपि प्रियालापश- तानुनयैः प्रशममुपनीय क्रमेण जन्मभूमिं जातिं विद्यां च कलत्रमपत्यानि विभवं वयःप्रमाणं प्रव्रज्यायाश्च कारणं स्वयमेव पप्रच्छ | पृष्टश्वासाववर्णयदात्मानम् । अतीत स्वशौर्यरूपविभ- १ न्तरेण परिवृतो वृद्धिमेव जनयति तद्वद्दौ स्थित्यवृद्धिरेव सूचिता । अत एव तस्य विच्छेद एव नास्तीत्याह- स्वकुटुम्वेति । स्वकीयं कुटुम्वमिवात्मीयखजनमिवोद्वहतोद्वहनं कुर्वता | मूर्खतेति । मूर्खस्य भावो मू- र्खता तामपि बहुभिर्व्यसनैरासक्तिभिरनुगतां सहिताम् । अतएव मूर्खताया व्यसनजनकत्वादाह — प्रसूते- ति । प्रसूतानि जनितान्यनेकान्य पत्यानि ययैवंविधामिव दर्शयतान्येभ्यः प्रकाशयता | क्रोधमिति । क्रोधं कोपमप्यनेके दण्डास्तेषां कलहावसरे योऽभिघातस्तैर्निर्मितो बहुगात्राणां गण्डूकः पिटको येन स तम् । अत एवाह - फलितमिव प्रकाशयताविष्कुर्वता । क्लेशमिति । क्लेश: परिश्रमस्तमपि सर्वेष्ववयवेषु ज्वलि ता या दीपिकास्तासां दाह इव यो दाहस्तरमाद्यानि व्रणानि देहविकृतिरूपाणि तैर्विभावितं लक्षितम् । अत एव वहुच्छिद्रवत्त्वाद्वहुमुखमिव प्रकटयता प्रकाशयता। परीति । परिभवमपि तिरस्कारमपि निष्कारणं निष्प्र- योजनमाकृष्ट आकर्षितो यो जनस्य पदोऽस्तेिन दत्तं पदाकृटिशतं चरणप्रहारशतं यस्मिन् । अविच्छिन्नग- तिमत्त्वात्प्रवाहमिव दधानेन बिभ्रता । शुष्केति । गुष्का या वनलता तथा विनिर्मितो निष्पादितो वृहत्कु- सुमकरण्डः पुष्पसंस्थापकस्थलं येन | वेण्विति । वेणुलतया रचिताः पुष्पपातनार्थमकुशिका येन । क्षणेति । क्षणमध्यमुक्तोऽत्यक्तः कालकम्बलखण्डस्य कृष्णराहकप्रदेशस्य खण्डखोलो येन | अन्वयस्तु प्रागेवोक्तः । त स्यामिति । तस्यां एव भूमौ वासं निवासमरचयद्रचितवान् | 1 D अथेति । तदनन्तरं तुरगादश्वादवतीर्य प्रविश्य च । चण्डिकायतन मिति शेषः । भक्तिप्रवणेन चेतसा तां प्रणनाम नमश्चक्रे । कृतेति । कृता विहिता प्रदक्षिणा येनैवंविधश्च पुनरपि प्रणम्य नमस्कारं कृत्वा प्र शान्तो य उद्देशस्तस्य दर्शनस्य यत्कुतूहलं तेन परिभ्रमन्नितस्ततः संचरन् । उच्चै रुच्चस्वरेणारटन्तं पूरकुर्वन्त माक्रोशन्तं च कुपितं द्रविडधार्मिक मेकदेश एकस्मिन्प्रदेशे ददर्शक्षचक्रे | दृष्ट्वा विलोक्य | कादम्बरीति ।