पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कादम्बरी। मालकिसलयामोदिनी, मधुमदोपरक्तकेरलीकपोलच्छेविना संचरनदेवताचरणालक्तकरसर- जितेनेव पल्लवचयेन संच्छादिता, शुककुलदलितदाडिमीफलद्रवार्दीकृततलैरतिचपलैकपिक- म्पितककोलच्युतपल्लवफलशवलैरनवरतनिपतितकुसुमरेणुपांसुलैः पथिकजनरचितलवङ्गपल्लव- संस्तरैरतिकठोरैनालिकेरकेतकीकरीवकुलपरिगतप्रान्तैस्ताम्बूलीलतावनद्धपूगखण्डमण्डितैर्व- नलक्ष्मीवासभुवनैरिव विराजिता लतामण्डपैः, उन्मदमातङ्गकपोलेस्थलगलिस लिलसिक्ते- नेवानवरतमेलालतावनेन मद्गन्धिनान्धकारिता, नखमुखलग्नेभकुम्भमुक्तफललुब्धैः शवरसे- नापतिभिरभिहन्यमानकेसरिशता, प्रेताधिपनगरीव सदासं निहितमृत्युभीपणा महिषाधिष्ठिता च समरोद्यतेपताकिनीव बाणसमारोपितशिलीमुखा विमुंक्तींसहनादा च, कात्यायनीव प्रच- वृक्षरय किसलयानि तेपामामोदः परिमलो विद्यते यस्यां सा । मध्विति । मधु कापिशायनं तस्य यो मद आवेशस्तेनोपरक्ता लोहितवंभूता या केरली केरलदेशोद्भवा स्त्री तस्याः कपोली गल्लापरप्रदेशौ तयो- श्छविरिव छविर्यस्य स तेन । केरलदेशोद्भवा स्त्री स्वभावतो रक्तवर्णा कोमलाङ्गी । मधुमदात्तु विशेषतो रक्तेति भावः । केनेव । संचरन्त्य इतस्ततो गच्छन्त्यो या वनदेवता अरण्याधिष्ठात्र्यस्तासां चरणानां योऽलक्तकरसो यावकद्रवस्तेन रञ्जितेनेव रक्तीकृतेनेव पल्लवानां किसलयानां चयेन समूहेन संछादिताच्छादिता । विराजि- तेति । लता वयस्तासां मण्डपैर्जनाश्रयैर्विराजितोपशोभमाना । अथ मण्डपान्विशेषयन्नाह--शुकेति । शुककुलदलितानि विदारितानि यानि दाडिमीफलानि तेषां द्रवो रसस्तेनाद्रीकृतमातामुपनीतं तलं मध्य- भागो येपां ते तथा तैः । अतीति । अतिचपलात्यन्तं चञ्चला ये कपयो गोलालास्तैः कम्पिता धूनिता ये ककोलाः कोशफलवृक्षास्तेभ्यश्च्युतैः पतितः पल्लवफलैः शवलाः कर्बुरास्तैः । अनवरतेति । अनव- रतं निरन्तरं निपतितानि यानि कुसुमानि पुष्पाणि तेषां रेणवः परागधूलयस्तैः पांसुलाः सरजस्कास्तैः । पथिकेति । पथिकजनैः पान्थलोके रचितो निर्मितो लवङ्गपल्लवानां लवङ्गवृक्षविशेष किसलयानां संस्तरः प्रस्तरो येषु तैः । अतीति । अतिकटोरा अत्यन्त कठिना नालिकेरा लागलीवृक्षाः केतक्यः क्रकचच्छदाः करीराः केसरा वकुलाश्च तैः परिगतो व्याप्तः प्रान्तोऽन्त्यप्रदेशो येषां ते तथा तैः । ताम्बूलीति । ताम्बूली नागवल्ली सा चामा लता चेति कर्मधारयः । तयावनद्धं वद्धं यत्पूगखण्ड क्रमुकवनं तेन मण्डितैः शोभितैः । कैरिव । वनेति । वनलक्ष्मीररण्यश्रीस्तस्या वासस्य वसते वनानि गृहास्तैरिव । उन्मदेति । उन्मदा मत्ता ये मातझा गजास्तेषां कपोलस्थलानि करटप्रदेशास्तेषां गलितं च्युतं यत् सलिलं मदजलं तेन सिक्तेनेव सिञ्चितेनेव । अतएव मदगन्धिना मदस्य गन्ध इव गन्धो यस्मिन्नेतादृशेन । अनवरतं निरन्तरमेलानां चन्द्रवालानां लता वल्लयस्तासां वनं काननं तेनान्धकारिता श्यामीकृता । एलारजःसंवन्धाच्छयामतां प्रापिते- त्यर्थः । नखेति । नखानां मुखान्यग्राणि तेषु लग्नान्यासक्तानि यानीभकुम्भमुक्ताफलानि गजमांसपिण्डरसो. द्भवानि तेषु लुब्धालुपैः शबराणां भिल्लानां सेनापतिभिः सैन्यनायकैरभिहन्यमानं व्यापाद्यमानं केरारिणां नखरायुधानां शतं यस्यां सा तथा । प्रेतेति । प्रेताधिपो यमस्तस्य नगरीव संयमिनीव सदा निरन्तरं