पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वभागः । चयः लम् । आवेदयतु भवानादितः प्रभृति कालयेनात्मनो जन्म कस्मिन्देशे, भवान्कथं जातः, केन वा नाम कृतम्, का ते माता, कैस्ते पिता, कथं वेदानामागमः, कथं शाम्बाणां परि. कुतः कला आसादिताः, किंतुकं जन्मान्तरानुस्मरणम, उत वरपक्षाना, अथवा विहङ्गवेषधारी कर्चिच्छन्नं निवससि, क वा पूर्वमुपितम्, कियद्वा वयः, कथं पश्चरबन्धनं, कथं चाण्डालहस्तगमनम्, इह वा कथमागमनम्' इति । वैशम्पायनस्तु स्वयमुपजातकु- तूहलेन सबहुमानमवनिपतिना पृष्टो मुहूर्तमिव ध्यात्वा सादरमब्रवीत्--'देव, महतीयं कथा । यदि कौतुकमाकर्ण्यताम् - अस्ति पूर्वापरजलनिधिवेलीवनलग्ना, मध्यदेशालंकारभूता मेखलेव भुवः, वनकरिकुलम- दजलसेकसंवधितैरतिविकचधवलकुसुमनिकरमत्युञ्चतया तारकागणमिव शिखरप्रदेशसंलग्न- मुबह द्भिः पादपैरुपशोभिता, मदकलकुररकुलदश्यभानमरिचपल्लवा, करिकलभकरमृ दितत- रूपमपनयतु दूरीकरोतु । तदेव दर्शयति-आबेदयत्विति । कारन्येन समग्रत्वेनादितः प्रभृत्युत्पत्तिसमया- दारभ्यावेदयतु कथयतु भवान् । तदेव दर्शयति---आत्मन इत्यादि । कस्मिन्देशे कुत्र जनपद आत्मनः स्वकीयस्य जन्मोत्पत्तिः । कथं केन प्रकारेण भत्रांस्त्वं जात उत्पन्नः । केन वा वैशम्पायन इति नामाभिधानं कृतं विहितम् । ते तव का माता जननी । ते कः पिता जनकः । कथं केन प्रकारेण वेदानामानायानामागम उपलब्धिः । कथं शास्त्राणां न्यायमीमांसादीनां परिचयोऽववोधः । कुतः कस्मात्कला विज्ञानकदेशा द्वासप्तति- भेदभिन्ना आसादिता अभ्यस्ताः । किंतुकं किंनिमित्त जन्मान्तरस्य पूर्वजन्मनोऽनुस्मरणमनुभूतार्थज्ञानम् । उताहोस्विद्वरप्रदानम् । यद्वा । केनचिद्वरः प्रदत्तो येन जन्मान्तरं जानासीति भावः । अथवेति पक्षान्तरे । सिद्ध एव वा कश्चित् कश्चन त्वं विहङ्गानां(?) पक्षिणां वेषधारी छनं गूढं निसवसि निवासं करोषि। क्व वा कस्मिन्स्थले- त्रागमनात्पूर्वमुषितं स्थितम् । ते कियद्वार्पिकं वयः कौमारादिः । कथं केन प्रकारेण पञ्जरः पक्षिणां गृहं तत्र बन्धनमवस्थानम् । कथं वा चाण्डालहस्तगमनम् । इहास्मिन्प्रदेशे कथं वागमन मिति । तदनन्तरं वैशम्पा- । तु पुनरर्थे । उपजातं समुत्पन्नं कुतूहलं यस्यैवंभूतेन अवनिपतिना पृथ्वीपतिना सबहुमानं सह बहुमानेनादरेण वर्तमानं यथा स्यात्तथेति क्रियाविशेषणम् । स्वयं नान्तरा पृष्ट आक्षिप्तः सन्ध्रश्नानन्तरं मुहूर्त- मिव घटिकाद्वय मित्र भ्याला ध्यानं कृत्वा सादरं आदरेण सह यथा स्यात्तथाब्रवीदुवाच । तत्किम् । हे • देव, यत्पृष्टं तद्विपयिणी महती कथेयम् । यदि च किं तदिति तच्छ्रवणे कौतुकं तदाकर्ण्यतां भ्रूयताम् । अस्तीति । नामेति प्रसिद्धम् । विन्ध्याटव्यस्तीत्यन्वयः । इतोऽटवीं विशेषयन्नाह-पूर्वति । पूर्वश्चा- परश्च पूर्वापरौ यौ जलनिधी समुद्रौ तयोर्यद्वेलावनं तटकाननं तावत्पर्यन्तं लग्ना संवद्धा । मध्येति । सह्य- हिमागयोर्मध्यं मध्यदेशस्तस्यालंकारभूता । भूषणरूपेत्यर्थः । अतएव मध्यभूषणरूपवाद्भुवः पृथिव्या मेख- लेव काञ्चीव । पादपैर्वृक्षरुपशोभिता द्योतमाना । अथ पादपान्विशेपयन्नाह-वनेति । वने कानने करिणो यनः