पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वभागः । बलागुरुधूपपरिमलम्, अखिलविर्गलितजलनिवधवलजलधरशकलानुकारिणा कुसुमामोद- वासितप्रच्छदपटेन पट्टोपधानाध्यासितशिरोधाम्ना मणिमयप्रतिपादुकाप्रतिष्ठितपादेन पार्श्वस्थ- रत्नपादपीठेन तुहिनशिलातलसदृशंशयनेन सनाथीकृतवेदिकं भुक्त्वास्थानमण्डपमयासीत् । तत्र च शयने निषण्णः क्षितितलोपविष्टया शनैः शनैरुत्सङ्गनिहितासिलतया खड्गवाहिन्या नवनलिनदलकोमलेन करसंपुटेन संवाह्यमानचरणस्तत्कालोचितदर्शनरवनिपतिभिरमासमिः त्रैश्च सह तास्ताः कथाः कुर्वन्मुहूर्त मिवासांचके । ततो नातिदूरवर्तिनीम् ‘अन्तःपुराद्वैशम्पा. यनमादायागच्छ' इति समुपजाततद्वृत्तान्तप्रश्नकुतूहलो राजा प्रतीहारीमादिदेश । सा क्षि- तितलनिहितजानुकरतला 'यथाज्ञापयति देवः' इति शिरसि कृत्वाज्ञां यथा दिष्ठमकरोत् । अथ मुहूर्तादिव वैशम्पायनः प्रतीहार्या गृहीतपञ्जर: कनकवेत्रलतावलम्बिना किंचिदवन- धूपस्य परिमलः सौगन्ध्यं यस्मिस्तत्तथा । तुहिनेति । तुहिनं हिमं तस्य शिलातलं तत्सदृशं यच्छयनं शय्या तेन सनाथीकृता सहिता वेदिका संस्कृतभूमियस्मिंस्तत्तथा । इतः शयनं विशेषयन्नाह-अखिलेति । अखिलः समग्रो विगलितो जलनिवहो नीरसमूहो यस्मिन्नेवभूतो धवलः शुभ्रो जलधरो मेवस्तस्य शकलं खण्डस्तमनुकारिणा तत्सादृश्य करणशीलेन । कुसुमेति । कुसुमानां पुष्पाणामामोदः परिमलस्तेन वासि- तो भावितः प्रच्छदपट उत्तरच्छदो यरिंगस्तत्तथा तेन । पहेति । पट्टस्य पट्टकूलयोपधानमुच्छीपकं तेना- ध्यागितमधिष्टितं शिरोधाम शिरःस्थलं यस्मिस्तत्तथा तेन । मणीति । मणिमया मणिप्रचुराः प्रतिपादु- का अधःपीठानि तेषु प्रतिष्ठिताः स्थिताः पादा यस्य तत्तथा तेन । पाश्चति । पार्श्वस्थं समीपस्थं रत्नपा- दपीटं मणिपदासनं यास्मिंस्तत्तथा तेन । अन्वयस्तु प्रागेवोक्तः । तत्र चेति । तत्र शयने निषण्ण उपविष्टो राजा मुहूर्त मिव घटिकाद्वयमात्र मिवासांचके मुख्वाप । इतो राजानं विशेषयन्नाह-क्षितीति । क्षितितले भूमितल उपविष्टया स्थितया तथोत्सझे कोडे निहिता स्थापितासिलता खगलता ययैवंभूतया खाजवाहिन्या नवं नूतनं यन्नलिनं कमलं तस्य दलानि पत्राणि तद्वत्कोमलेन मृदुना करसंपुटेन हस्तपुटेन शनैः शनैः संवाह्य- मानौ संलाल्यमानौ चरणौ पादौ यस्य स तथा । तत्काल इति । तत्काले शयन काल उचितं योग्यं दर्शन- मालोकनं येषामेतादृशैरवनिपतिभिर्नुपरमात्यैः सचिवैर्मित्रैः सुहृद्भिस्तास्ताः प्रस्तावोचिताः कथा वार्ताः कुर्व- विदधत् । ततः कथासमायनन्तरं पूर्वोक्तां प्रतीहारी मित्यादिदेशाज्ञापयामास । कीदृशीम् । नातिदूरं नाति- व्यवधानेन वर्तते यासां या सा ताम् । आज्ञाविपयमाह-अन्त इति । अन्तःपुरादवरोधात्तं वैशम्पायनं शुक्रमादायागच्छेति । समुपैति । सगुपजातं समुत्पन्नं तस्य शुकस्य वृत्तान्तप्रश्ने प्रवृत्तिपृच्छायां कुतूहलमाश्चर्य यस्य स तथेति राज्ञो विशेषणम् । सा प्रतीहारी क्षितितले निहिती स्थापितो जानू नलकीलको करतले हरततले च यया सा । आसन विशेषेण विनय विशेपो व्यजितः । आज्ञोत्तरं तस्याः कर्तव्यमाह-यथेति । येन प्रकारेणाज्ञापयत्याज्ञां दत्से देवो भवानित्यनूध शिरसि भरतक आज्ञां पूर्वोक्तां कृत्वा स्वशिरसि करतलं - ति- TETT