पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४ कादम्बरा रत्नकर्णपूरमात्राभरणः समुचितभोजनैः सह भूपतिभिराहारमभिमतरसास्वादजातप्रीतिरव- निपो निर्वतयामास । परिपीतधूमवर्तिरुपस्पृश्य च गृहीतताम्बूलस्तस्मात्प्रमृष्टमणिकुट्टिमप्रदेशादुत्थाय नातिदूर- वर्तिन्या ससंभ्रमप्रधावितया प्रतीहार्या प्रसारितवाहुमवलम्व्य वेत्रेलताग्रहणप्रसङ्गादतिजरठ- किसलयानुकारिकरतलकरेणाभ्यन्तरसंचारसमुचितेन परिजनेनानुगम्यमानो, धवलांशुकैप- रिगतपर्यन्ततया स्फटिकमणिमयभित्तिनिवद्धमिवोपलक्ष्यमाणम्, अतिसुरभिणा मृगनाभिपै- रिगतेनामोदिना चन्दनवारिणा सिक्तशिशिरैमणिभूमिम्, अविरलविप्रकीर्णेन विमलमणि'- ट्टिमगगनतलतारागणेनेव कुसुमोपहारेण निरन्तरनिचितम्, उत्कीर्णशालभन्जिकानिवहेन संनिहितगृहदेवतेनेव गन्धस लिलक्षालितेन कलधौतमयेन स्तम्भसंचयेन विराजमानम्, अति- तन्मात्रमाभरणं यस्य स तथा । ननु नीचजनप्रदर्शनार्थ बहुतरभूपणधारणमिति मात्रपदव्यङ्ग्यम् । एकपङ्गी समुचितं योग्यं भोजनं येषामेवंभूतभूपतिमि पतिभिः सहेति भिन्नक्रमः । अभीति । अभिमताः श्रेष्ठा ये रसा मधुरादयस्तेपामास्वादो ग्रहणं तेन जातोत्पन्ना प्रीतिः संतुष्टिर्यस्य स तथा । परीति । मुखसौगन्ध्य प्रतिपादनार्थं परि सामस्त्येन पीता गृहीता धूमवर्तिव्यविशेषो येन स तथा । किं कृत्या । उपस्पृश्याचम्य । 'उपस्पर्शस्त्वाचमनम्' इति कोशः । पुनः किं कृत्वा । भुक्त्वा भोजनं विधाय। आस्थानमण्डपं परिपन्मण्डलमयासीजगामेत्यन्वयः । गृहीतमात्तं ताम्बूलं नागवल्लीदलं येन स तथा तस्मात्प्राभिर्दिष्टात् । प्रमृऐति । प्रमृष्टं सातिशयं मृष्टं मणिकुटिमं यस्मिन्नेवंभूतात्प्रदेशात्स्थलात् उत्थाय उत्थानं कृत्वेसर्थः । नातिदूरं वर्तते या सा तया । पुनः कीदृश्या । ससंभ्रमं सभयं प्रधावितया त्वरितं गच्छन्ला । एवंभूतया प्रतीहार्या । 'पुंवत्प्रगल्भा या नारी वक्तुं या च विचक्षणा । सा प्रतीहारी' इति । तया प्रसारितः संनिहितः कृतो वाहुर्भुजस्तमवलम्व्य । तदाश्रयमास्थायेत्यर्थः । परीति । परिजनेन सेव- कजनेनानुगम्यमान इति राज्ञो विशेषणम् । अथ सेवकजनं विशेषयन्नाह-वेति । वेत्रस्य वेतसस्य या लता सरल यष्टिस्तस्या ग्रहणं धारणं तस्य प्रसशोऽभ्यासस्तस्मादतिजरठमतिकठिनं यत्किसलयं तदनुकरोति तादृशं करतलं पाण्यधोभागो यस्यैवंविधः करो ह्स्तो यस्य स तथा तेन । अभ्यन्तरेति । अभ्यन्तरं वाहाजनागम्यो यो गृप्रदेशस्तत्र यः संचारः संचरणं तत्र समुचितो योग्यः स तथा तेन । अथा- स्थानमण्डपं विशिनष्टि-धवलेति । धवलं शुभ्रं यत् अंशुकं वस्त्रं तेन परिगतः सहितो यः पर्यन्तः प्रान्तस्तस्य भावस्तत्ता तया । स्फटिकमणिमयी या भित्तिः कुज्यं तया निवद्धं निर्मितमिवोपलक्ष्य- माणं दृश्यमानम् । अनेनांशुकानां श्वेतत्वसौक्ष्म्यातिशयो व्यज्यते । अतीति । अतिसुरभिणा गृग- नाभिपरिगतेनामोदिना चन्दनवारिणा मलयजपानी येन सिक्ता सिञ्चितात एव शिशिरा शीतला मणि- भूमी रत्नवद्धा भूर्यस्मिस्तत्तथा । अवीति । अविरलं धनतरं विप्रकीर्णेन पर्यस्तेन । विमलेति । विमल. मणीनां निर्मलरत्नानां यत्कुटिमं तत्र गगनतलतारागणेनेवाकाशस्थितनक्षत्रसमूहेनेव कुसुमोपहारेण पुष्पप्रकरेण निरन्तरं सर्वकालं निचितं व्याप्तम् । स्तम्भेति । स्तम्भाः स्थूणास्तेषां संचयेन समुदायेन