पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/२९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कादम्बरी । २९६ प्रविशता कनकवेत्रलताकरेण प्रतीहारीजनेन कचुकिलोकेनागृहीतताम्बूलकुसुमपटवासाङ्ग- रागेण चामरव्यप्रपाणिना कुब्जकिरातबधिरवामनवर्षवरकलमूकानुवीतेन परिजनेन सर्वतः संरुद्धे द्वारदेशे कथमप्यवाप्तनिर्गमः प्रययौ | अम्बा तु मत्समीपमागत्य सुचिरं स्थित्वा स्वभवनमयासीत् । तया तु तत्रागत्य किं कृतं किमभिहितं किमाचेष्टितमिति शून्यहृदया सर्वं नालक्ष्यम् । गतायां च सत्यामस्तमुपगते भगवति हारीतहरितवाजिनि सरोजिनीजी- वितेश्वरे चक्रवाकसुहृदि सवितरि, लोहितायमाने पश्चिमाशामुखे, हरितायमानेषु कमलव- नेपु, नीलायमाने पूर्वदिग्भागे, पातालपङ्ककलुषेण महाप्रलयजलधिपयःपूरेणेव तिमिरेणाव- टभ्यमाने जीवलोके किंकर्तव्यतामूढा तामेव तरलिकामपृच्छम् – 'अयि तैरलिके, कथं न पश्यसि दृढमाकुलं मे हृदयम् । अप्रतिपर्त्तिं विह्वलानि चेन्द्रियाणि । न स्वयमण्वपि कर्तव्य- मलमँस्मिञ्ज्ञातुम् | उपदिशतु मे भवती यत्र सांप्रतमयमेवं त्वत्समक्ष मेवाभिधाय गतः कपिञ्जलः । यदि तावदितरकन्यकेव विहाय लज्जाम्, उत्सृज्य धैर्यम्, अवमुच्य विनयम्, १ ति । प्रतीहारीणां द्वारनियुक्तस्त्रीणां जनो लोको यस्मिन्स तेन | कनकेति | कनकस्य सुवर्णस्य वेत्रलता यष्टि- विशेषः सा करे पाणौ यस्य स तेन । पद्मपाणिरित्यादिप्रयोगदर्शनात् 'न बहुत्रीहौ' इत्यनेन सप्तम्यन्तस्य पूर्व- निपातः । कञ्चुकीति । कञ्चुक्रिनां सौविदलानां लोको जनो यस्मिन्स तेन । 'लोको विश्वजनः’ इत्यनेकार्थः। आगृहीतेति । आ समन्ताद्गृहीता आत्तास्ताम्वूलकुसुमपटवासाङ्गरागा येन स तेन । तत्र ताम्बूलं नागवल्ली, कुसुमानि पुष्पाणि, पटवासः पिष्टातः, अङ्गरागो विलेपनम् | चामर इति । चामरैर्वालव्यजनैर्व्यग्र आकुलः पाणिर्हस्तो यस्य स तेन । कुब्ज इति । कुब्जः खर्वः, किरातः स्वल्पतनुः, वधिरोऽकर्णः, वामनः प्रसिद्धः, वर्पवरः षण्ढः । 'कलमूकोऽवाक्श्रुतिः' इति हलायुधः । एतैरनुवीतेनावृतेन । 'संवीते रुद्धमावृते' इति कोशः, क्वचित् ‘अनुमत’ इति पाठः । तत्रानुमतेनेत्यभिमतेनेत्यर्थः । अम्बा त्विति | अम्बा तु जननी तु मत्स- मीपं मदन्तिकमागत्यैत्य सुचिरं चिरकालं स्थित्वा स्वजनं निजगृहमयासीदगात् । तया तु मज्जनन्या तु तत्र मद्गृह आगत्य किं कृतं किं विहितम्, किमभिहितं किं कथितम्, किमाचेष्टितं किमाचरितम्, इति सर्वमहं शून्यहृदयोद्वसचित्ता नालक्षयं न ज्ञातवती । तस्यामम्वायां गतायां च सत्यां भगवति माहात्म्यवति सवितरि सूर्येऽस्तमुपगते प्राप्ते सति किंकर्तव्यतामूढाहं तामेवतरलिकामपृच्छं पृष्टवतीयन्वयः । अथ सूर्य विशेषय- नाह - हारीतेति । हारीतो मृदङ्करः 'हारिल' इति लोकप्रसिद्धः । तद्वद्धरिता नीला वाजिनोऽश्वा यस्य स तस्मिन् । सर इति । सरोजिनी कमलिनी तस्या जीवितेश्वरः प्राणनाथस्तस्मिन् । चक्रेति । चक्रवाकस्य द्वन्द्वचरस्य सुहृदि । पुनः कस्मिन्सति । पश्चिमाशामुखे लोहितायमाने रक्तायमाने सति । पुनः केषु सत्सु । क- मलवनेषु नलिनकाननेषु हरितायमानेषु नीलायमानेषु सत्सु । पुनः कस्मिन् । पूर्व दिग्भागे नीलायमाने सति । अनः कस्मिन । तिमिरेणान्धकारे जfaciasayranान आश्लिष्यमाने । केनेव महाप्रलयस्य यो ज धि: