पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/२८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मदनमयमिव परायत्तचित्तवृत्तिं परां कोटिमधिरूढं मैदनावेशस्य, अनभिज्ञेय पूर्वाकारं द्राक्षम् । अपगतनिमेषेण चक्षुषा तदवस्थं चिरमुद्रीक्ष्य समुपजातविषादो वेपमानेन नाचिन्तयम्----' एवं नामायमतिदुर्विषहवेगो मकरकेतुः, येनानेन क्षणेनायमीदृशमव रप्रकारमप्रतीकारमुपनीतः । कथमेवमेकपदे व्यर्थीभवेदेवंविधो ज्ञानराशिः । अ महञ्चित्रम्, तथा नामायमाशैशवाद्धीरप्रकृतिरस्खलितवृत्तिर्मम चान्येषां च मुनिकु णां स्पृहणीयचरित आसीत् । अत्र त्वितर इव परिभूय ज्ञानमवगणय्य तपःप्रभावो गाम्भीर्य मन्मथेन जडीकृतः । सर्वथा दुर्लभं यौवनमस्खलितम्' इति । उपसृत्य च नेव शिलातलैकपार्श्वे समुपविश्यांसावसक्तपाणिस्तमनुन्मीलितलोचनमेव 'सखे पुण् कथय किमिदम्' इत्यपृच्छम् । अथ सुचिरसमीलनालग्नमिव कथमपि प्रयत्नेनानवरत वशार्ल्समुपजातारुणभावमश्रुजलपॅटलपूरलावितमुत्कम्पितमिव संवेदनमिव स्वच्छांशुक महाभूतानि वेतालास्तैरधिष्ठितमिश्रितमिव । हेति । ग्रहाः पिशाचादयस्तैर्गृहीत मिवाधिष्ठितमिव, मिव क्षीबमिव, छलितमित्र छलनां प्राप्तमित्र, अन्धमिव गताक्षमिव, वधिरमिवाकर्णभिव, मूकमिवास्फुट व, विलासमयमिवानन्दमयमिव, मदनमयमिव कंदर्पमयमिव । पेति । परस्यां महाश्वेतायामायत्ता ल त्तवृत्तिर्यस्यैवंभूतम् । मदनः कंदर्पस्तस्या वेशोऽध्या सस्तस्य परामुत्कृष्टां कोटिमवस्थामधिरूढमारूढम् । अ अनभिज्ञेयोऽनवसेयः पूर्वाकार आद्याकृतिर्यस्य स तम् | अन्वयस्तु प्रागेवोक्तः । अपेति । अपगतो नि मीलनं यस्यैवंभूतेन चक्षुषा नेत्रेण तदवस्थं पूर्वावस्थं चिरं चिरकालमुवीक्ष्य विलोक्य समुपजातः विपादः खेदो यस्य सः । वेपेति । वेपमानेन कम्पमानेन हृदयेन चित्तेन चिन्तयमध्यायम् । एव एवमुना प्रकारेण । नामेति कोमलामन्त्रणे । अयमतिशयेन दुर्विषहो दुःसहो वेगो यस्यैतादृशो म कंदर्प येन कारणेनाने नानङ्गेन क्षणेनायमीदृशमप्रतीकारमप्रतिक्रिय मवस्थान्तरप्रकारं दशान्तरप्रकार प्रापितः । उक्तविपर्यये दूषणमाह - कथमिति । एवंविधो ज्ञानराशि रेतादृशज्ञानसमूह एकपदे युगप व्यथभवेत् । अत्र वितर्के प्रार्थनायां लिट् | अहो इत्याश्चर्ये । बतेति खेदे | इदं महच्चित्रं महदाश्चर्य | त तेन प्रकारेणायमा शैशवादावाल्यान्मम चान्येषां चमुनिकुमारकाणां स्पृहणीयमभिलपणीयं चरितंय ध आसीदभूत् । अथैनं विशिष्टि - धीरेति । धीरा स्थिरा प्रकृतिः स्वभावो यस्य स तम् । अस्खलि अस्खलिता अखण्डिता वृत्तिर्यस्य स तम् । अत्र विति । अस्मिन्प्रदेश इतर इवान्य इव ज्ञानं परिभूयि तपःप्रभावं तपोमाहात्म्यमवगणय्यावगणनां कृत्वा गाम्भीर्य गम्भीरतामुन्मूल्योच्छेद्य मन्मथेन जडीकृतो जडतां नीतः । सर्वथेति । सर्वप्रकारेणास्खलितमखण्डितं यौवनं तारुण्यं दुर्लभं दुः उपेति । उपसृत्य समीपमागत्य तस्मिन्नेव शिलातलैकपार्श्वे समुपविश्यांसे स्कन्धेऽवसक्तः स्थापित करो येन स तमनुन्मीलितलोचनमेव मुद्रितनेत्र मेवेत्यपृच्छं इत्यवोचम् । इतिद्योत्यमाह | सखे इ सखे पुण्डरीक, कथय निवेदय किमिदम् । अथेति प्रश्नानन्तरम् | मन्थरमन्थरयालसालसया दृष्ट्या चिरकालं यावत् मां विलोक्य निरीक्ष्यायततरं दीर्घतरं निःश्वस्य चक्षुरुन्मील्य विमुद्र्य कथमपि महता लज्जेति । लज्जया त्रपया विशीर्यमाणानि विदीर्यमाणान्यक्षराणि यस्मिन्निति क्रियाविशेषणम् । इति श न्द॑मन्दमवददवॊचदित्यन्त्रयः । अथ चक्षुर्विशेषनाह– सुचिरेति । सुचिरं चिरकालं यत्संमीलनं A