पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/१९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वभागः । २०१ । परविरुद्धं चेन्द्रजालमिव दर्शयन्ती प्रकटयति जगति निजं चरितम् । तथाहि | संततमू- णमुपजनयन्त्यपि जाड्यमुपजनयति | उन्नतिमादधानापि नीचस्वभावता माविष्करोति । रौंशिसंभवापि तृष्णां संवर्धयति । ईश्वरतां दधानाप्य शिवप्रकृतित्वमातनोति । बलोपचय- रन्त्यपि लघिमानमापादयति | अमृतसहोदरापि कैटुकविपाका, विग्रहवत्यप्य प्रत्यक्षदर्श पुरुषोत्तमरतापि खलजनप्रिया, रेणुमयीव स्वच्छमपि कलुषीकरोति । यथायथा चेयं ला दीप्यते तथातथा दीपशिखेव कज्जलमलिनमेव कर्म केवलमुद्वमति । तथाहि । इयं र्धनवारिधारा तृष्णाविषवल्लीनाम्, व्याधगीतिरिन्द्रिय मृगाणाम्, परामर्शधूमलेखा सच्च- चित्राणाम्, विभ्रमशय्या मोहदीर्घनिद्राणाम्, निवासजीर्णवलभी धनमदपिशाचिकानाम्, नरोद्गतिः शास्त्रदृष्टीनाम्, पुरः पताका सर्वाविनयानाम्, उत्पत्तिनिम्नगा क्रोधावेगग्राहाणाम्, भूमिर्विषयमधूनाम्, संगीतशाला भ्रूविकार नाट्यानाम्, आवासदी दोषाशीविषाणाम्, रविरुद्धमन्योन्यासंबद्धं दर्शयन्ती प्रकाशयन्ती निजमात्मीयं चरितं वृत्तं जगति लोके प्रकटयत्याविष्क । तदेव दर्शयति — तथाहीति | संततं निरन्तरमूष्माणं तापमुपजनयन्त्यपि कुर्वत्यपि जाड्यं शैत्य- नयतीति विरोधः शब्दः । तत्परिहारस्तूष्माणं दर्पं शैयं जाड्यमित्यर्थात् | उन्नतिमादधानापि धारयन्त्यपि स्वभावतामाविष्करोतीति विरोधः । तत्परिहारस्तून्नति मुत्कर्षं नीचस्वभावोऽकर्तव्यं कर्मेत्यर्थात् | तोयराशिः स्तस्मात्संभवापि समुत्पन्नापि तृष्णां संवर्धयतीति विरोधः । तत्परिहारस्तु तृष्णां गार्ग्य मित्यर्थात् | ईश्वरतां नाप्य शिवप्रकृतित्वमनीश्वरप्रकृतित्वमातनोतीति विरोधः । तत्परिहारस्त्वीश्वरतां प्रभुतामशिवमशुभ मित्य- । बलोपचयमाहरन्त्यप्यानयन्त्यपि लघिमानमापादयतीति विरोधः । तत्परिहारस्तु बलोपचयं सैन्यसमूहं मानं कार्पण्यमित्यर्थात् | अमृतसहोदराप्यमृतेन सहोत्पन्नापि कटुकरसोपेतो विपाको यस्या इति वि । तत्परिहारस्तु कटुको दुःखदायीत्यर्थात् | विग्रहवत्यपि मूर्तिमत्यम्यप्रत्यक्षमगम्यं दर्शनं यस्या इति वि- । तत्परिहारस्तु विग्रहवती कलहवतीत्यर्थात् । पुरुषोत्तमरतापि खला ये दुर्जना जनास्ते प्रिया यस्या इति वि । तत्परिहारस्तु पुरुषोत्तमे कृष्णे रतं मैथुनं यस्या एवं विधापि खलजनानां प्रिया वल्लभेत्यर्थात् | रेणुमयीव गुणमयीव स्वच्छमपि निर्मलमपि कलुषीकरोति मलिनीकरोति । यथेति । यथायथेयं लक्ष्मीचपला चञ्चला ते दीप्ता भवति तथातथा केवलं दीपशिखेव कजलवन्मलिनं कश्मलं कर्मोद्वमत्युद्भिरति । दीपशिखापि ललक्षणं यन्मलिनं कर्म तदेवोद्वमति । तदेव दर्शयति-तथाहीति | तृष्णा लोभस्तलक्षणानां विषव- • संवर्धने विस्तारणे वारिधारा जलश्रेणिः । अत्र श्रीजलधारयोर्वृद्धि हेतुत्वेन साम्यम् | छेदयोग्यतया वयोः साम्यम् | व्याधेति । व्याधगीतिर्मृगवधाजीविगान मिन्द्रिय मृगाणामक्षहरिणानाम् । अत्र नाश- साम्याच्छ्रीगीत्योः साम्यम् | नाश्यत्वसाम्याच्चाक्षमृगयोः साम्यम् | गानलव्धाश्च मृगा हन्यन्त इति सर्व द्वम् । सञ्च्चरितानि सदाचरणानि तान्येव चित्राणि तेषां परामर्श आचमनं तदर्थं या धूमलेखा धूमपङ्किः ।

कफनिवृत्त्यर्थं द्रव्यान्तरस्य धूम्रपानं कृत्वा पश्चात्स एवोदीर्यते तत्स्पर्शादेवालेख्यं विनश्यतीति भावः ।

A