पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/१८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वभागः । १८७ मुल्लसितायामम्बर तटोकविकचकमलिन्यां संध्यायाम, कृष्णागुरुपङ्कपत्रलताखिव तिमिरले - खासु स्फुरन्तीषु दिशौमुखेषु, अॅलिकुलमलिनेन कुवलयवनेनेव रक्तकमलाकरे तिमिरेणोत्सा- र्यमाणे संध्यारागे, कमलिनी निपीत मातपमुन्मूलयितुमन्धकारपल्लवेष्विव प्रविशत्सु रक्तकम- लोदराणि मधुकरकुलेषु शनैः शनैश्च निशाविलासिनीमुखावतंसपल्लवे गलिते संध्यारागे, दिर्ध्नु विक्षिप्तेषु संध्यादेवतीर्चनबलिपिण्डेपु शिखरदेशलग्न तिमिरास्वनारूढमयूरास्वपि मयूरा- धिष्ठिताविव मयूरयष्टिषु, गवाक्षविवरनिलीनेषु प्रासादलक्ष्मी कैर्णोत्पलेपु पारावतेषु, विगत विलासिनीसंवाहन निश्चैलकाञ्चनपीठासु मूकीभूतघण्टास्वरास्वन्तःपुरदोलासु, भवनसहका- रशाखावलम्बिपञ्जरेषु विगतालापेषु शुकसारिका निवहेषु, "संगीतविरामविश्रान्तरवासूत्सा- र्यमाणासु वीणासु युवतिनूपुरशब्दोपशम निभृतेषु भवनकलहंसेषु अपनीयमानकर्णशङ्खचा- 2 । भगवति माहात्म्यवति गभस्तिमालिनि श्रीसूर्ये सति । अथ च संध्यायां समुल्लसितायामुल्लासं प्राप्तायाम् | अत्रोल्लास एव कमलिनीसाम्यं प्रदर्शयन्नाह - अम्बरेति | अम्बरमाकाशम् । स्वच्छत्वनीलत्वसाम्यात् । तदेव तटाकः सरस्तस्मिन्विकचा विकस्वरा कमलिनी नलिनी तस्याम् । अत्रारुण्यातिशयो व्यङ्ग्यः । पुनः केषु सत्सु | दिशामुखेषु दिग्वदनेषु तिमिरलेखासु भूच्छायराजिषु स्फुरन्तीपु देदीप्यमानासु | कृष्णत्वसा- म्यादाह- कृष्णेति | कृष्णागुरुः काकतुण्डस्तस्य पकः कर्दमस्तस्य पत्रलतास्विव पत्रभनेविच | दिशां मुखं तन्मुखमेव । अतएव तिमिरलेखासु पत्रलतात्वोपवर्णनं युक्तम् । तिमिरेणान्धकारेण संध्याराग उत्सार्यमाणे दूरी क्रियमाणे सति । केनेव | अलिकुलं भ्रमरसमूहस्तेन मलिनेन कृष्णेन कुवलयवनेनेव रक्तकमलाकरे रक्तपद्म- समूहे । तथा च रागतिमिरयोः कुमुदकमलयोर्विरुद्धातिशय वत्त्वेनैतदुपमानम् | कमलिनीति | कम- लिन्याः पद्मिन्या निपीतमाखादितमातपं सूर्यालोकमुन्मूलयितुं मूलतोऽपि दूरीकर्तु रक्तकमलोदराणि मधुकरकु- लेषु शनैः शनैः प्रविशत्सु प्रवेशं कुर्वत्सु | कृष्णत्वसाम्यादाह – अन्धेति । अन्धकारपत्रवेष्विव तमोभागे- विव । एतेन तमसोऽतिशयत्वं सूचितम् । निशेति । निशव रात्रिरेव विलासिनी स्त्री तस्या मुखमाननं तस्यावतंसपलवे शेखर किसलये संध्यारागे गलिते दूरीभूते सति । दिक्षु पूर्वादिषु संभ्यादेवतार्चनार्थं बलिपिण्डेषु विक्षिप्तेषु विकीर्णेषु सत्सुअर्धजलाजलैरित्यपि बोध्यम् तमसो नीलत्वात्तदेव मयूरसाम्य मित्याशयेनाह-मयूरे- ति | शिखरदेशे प्रान्तप्रदेशे लग्नं तिमिरं तमो यास्वेवंविधास्व नारूढ मयूरास्वप्य नातिनीलकण्ठावपि मयूराधि- ष्ठिता स्विव मयूरयष्टिषु सतीषु | पारावतानां रात्रौ विवरे निवासः प्रसिद्ध इति तदाह — गवाक्षेति | गवाक्षा वातायनास्तेषां विवरेषु छिद्रेषु निलीना गुप्तीभूय स्थितास्तेषु | कृष्णत्वसाम्यादाह - प्रासादेति । प्रासादय www. JANT