पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/१४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कादम्बरी । अभिनवकल्पतरुपल्लवकोमलं लेखामयैवं जरअतुरगातपत्रकमलैरलंकृत म नेक नरेन्द्रसहस्रचूडा- मणिचक्र चुम्बनोचितं चरणयुगलम् । एपच दुन्दुभरिवातिगम्भीरः स्वरयोगोऽस्य रुदतः भू- यते ।' इत्येवं कथयत्येव तस्मिन्ससंभ्रमापतेन राजलोकेन द्वारिस्थितेन दत्तमार्गस्त्वरितगति- रागत्य प्रहर्षोद्गमपुलकिततनुः स्फारीभवल्लोचनो मैङ्गलकनामा प्रहृमदनः पुरुषः पादयोः प्र- णम्य राजानं व्यजिज्ञपत्– 'देव, दिष्टया वर्धसे | प्रतितास्ते शत्रवः । चिरं जीव | जय पृथि - वीम् । त्वत्प्रसादात्रभवतः शुकनासस्यापि ज्येष्टायां ब्राह्मण्यां मनोरमाभिधानायां राम इव देणुकायां तनयो जातः श्रुत्वा देव: प्रमाणम्' इति । अथ नृपतिरमृतवृष्टिप्रतिममाकर्ण्य तद्वचनं प्रीतविस्फारिताक्षः प्रत्यवदत् - 'अहो कल्याण- परंपरा | सत्योऽयं लोकंप्रवाद यद्विपद्विपदं संपत्संपदमनुबनातीति । सर्वथा समानसुखदु:- खतां दर्शयता विधिनापि भवतेव वयमनुवर्तिताः' इत्यभिधाय प्रीतिविकसितमुखः सरभसमा- लेखा रेखा तथा लाञ्छितौ चिह्निती करी हस्तौ । चरणयोरग्याह – अभिनवेति । अभिनवाः प्रत्यग्रा ये क स्पतरुपलवा: पारिजात किसलयास्तद्वत्कोमलं मृदु एकं लक्षणम् । पञ्चभिर्द्वितीयमाह -लेखेति । ले- स्रामयै रेखानिष्पन्नैः । ध्वजस्थतुरगातपत्रकमलैरिति । ध्वजः पताका, रथः सन्दनः, तुरगो ययुः, आतपत्रं छत्रम्, कमलं नलिनम्, एतैरलंकृतं भूपितम् | वैभवमाह - अनेकेति । अनेके ये नरेन्द्रा राजान स्तेषां सहस्रं तय चूडामणीनां चक्रं समूहस्तेन चुम्बनं संश्लेपस्तत्रोचितं योग्यमेवंविधं चरणयुगलं पादद्वितीयम्। चिहान्तरमाह - एष चेति । अस वालस्य रुदन एप समीपतरवती दुन्दुभेरिव पदहस्येवातिगम्भीरोऽति- मन्द्रः खरयोगो ध्वनिसंवन्धः श्रूयत आकर्ण्यत । इत्येवं पूर्वोक्त प्रकारेण कथयत्येवेति क्रियासंगतेनैवकारेण सा- मानाधि करण्यमुच्यत इति । तस्मिञ्कनासे कथयत्येव ब्रुवत्येव मङ्गलकनामा पुरुषो राजानं पादयोश्च- रणयोः प्रणम्य व्यजिज्ञपद्विज्ञापनां चकार | मङ्गलकं विशेषयन्नाह - दन्तेति | दत्तो मार्गो यस्येति स तथा । केन । राजलोकेन राजसमूहेन । कीदृशेन । द्वारिस्थितेन प्रतीहारस्थितन | पुनः कीदृशेन । ससंभ्रमा- तू (मं) सत्वरमपसृतेन दूरीभूतेन । त्वरितं (ता) शीघ्रं (घा) गतिर्गमनं यस्य स तथा । प्रहर्षेति । प्रहपद्गिमेन प्रमोदोद्गमेन पुलकितं(ता) कण्ट कितं ( ता ) तनुर्यस्य सः | स्फारीभवती (ती) विस्तीर्णतां प्राप्यमाणे लोचने यस्य सः । प्रहृष्टं सहर्षं वदनं यस्य सः । देव स्वामिन् | त्वं दिष्ट्या भाग्येन वर्धस एधसे | ते शत्रवः प्रतिहता- क्षयं प्राप्ताः । चिरं बहुकालं जीव प्राणिहि | पृथिवीं वसुंधरां जय गृहाण | लत्प्रसादात्तव माहात्म्यादत्रभवतः पूज्यस्य शुकनासस्यापि ज्येष्ठायां ब्राह्मण्याम् । इत्यनेन हपतिशयः सूचितः । 'शुद्रायां वनौचित्यात्तत्रायं जायते खतः' (?) इत्युक्तत्वात् । मनोरमेत्यभिधानं नाम यस्याः सा तस्याम् । कस्यां क इव | रेणुकायां तुलजा- यां राम इव परशुराम इव तनयः पुत्रो जातः समुत्पन्नः | श्रुत्वेति । [श्रुत्वा ] एतदाकर्ण्य देवो भवान्त्रमा णमिति यदाज्ञापयति देवस्तदेव कर्तव्यमिति भावः । । अथेति । अथ एतदाकर्णनानन्तरं नृपती राजामृतस्य पीयूषस्य या वृटिर्वर्पणं तत्प्रतिमं तुल्यं तद्वचनं