पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/१३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३८ कादम्बरी । मण्डलामिव विभावरीम्, अभ्यर्णब्रह्मकमलविनिर्गमामिव नारायणनाभिम्, आसन्नाग- स्त्योदयामिव दक्षिणाशाम्, फेनावृतामृतकलशामिव क्षीरोदवेलाम्, गोरोचनाचित्रि- तदशमनुपर्हतमतिघवलं दुकूलयुगलं बसानां विलासवतीं ददर्श । ससंभ्रमपरिजनप्र- सारितकरतलौलम्वनावष्टम्भेन चामजानुविन्यस्तहस्तपल्लवां प्रचलितभूषणमणिरखमुखरमुत्ति- ठन्तीं विलासवतीम् 'अलमलमत्यादरेण । देवि, नोत्थातव्यम्' इत्यभिधाय सह तया तस्मिन्नेव शयनीये पार्थिवः समुपाविशत् । प्रमृष्टचामीकरचारुपादे धवलोप- च्छदे चासन्ने शयनान्तरे शुकनासोऽपि न्यपीदत् । अथ तामुपारूढगर्भामालोक्य हर्ष- भरमन्थरेण मनसा प्रस्तुतपरिहासो राजा 'देवि, शुकनासः पृच्छति यदाह कुलव- र्धना किमपि तक तथैव' इत्युवाच । अथाव्यक्तस्मितच्छु रितकपोलाधरलोचना लज्जया दशनांशुजालकव्याजेनांशुकेनेव मुखमाच्छादयन्ती विलासवती तत्क्षणमधो- मुखी तस्थौ । पुनःपुनश्चानुवध्यमाना 'किं मामतिमात्रं त्रपापरवशां करोपि । शशिमण्डलं यस्यामेवभूतां विभावरी रजनीमिव । अभ्यर्ण समीपे ब्रह्मकमलस्य धातुरूपनलिनस्य विनि- र्गमो वहिर्भावो यस्यामेतादृशीं नारायणनाभिमिव दामोदरकूपिकामिव । आसन्नः समीपवर्त्यगस्त्यस्य पीता. व्धेरुदय उद्गमनं यस्यामेवंभूतां दक्षिणाशामिवावाचीमिव फेनेन डिण्डीरेणावृता आच्छादिता अमृतकलशाः पीयूषकुम्भा यस्यामेतादृशीं क्षीरोदवेलामिव दुग्धोदधिजलवृद्धिमिव । गोरोचनया चित्रिता पिजरीकृता दशाः प्रान्ता यस्यैवंभूतमनुपहतमच्छिद्रमतिधवल मतिशुभ्रं दुकूलयुगलं दुकूलयुग्मं वसानां दधानाम् । अन्व- यस्तु प्रागेवोक्तः । ततश्च पार्थिवः स राजा तां विलासवतीमुत्तिष्ठन्तीमुत्थानं कुर्वतीम् । हे देवि, अलमलं कृतं कृतमत्यादरेणातिप्रयत्नेन । नोत्थातव्यं नोत्थानं कर्तव्यमित्येवमभिधायेत्युक्त्वा तस्मिन्नेव शयनीये पर्य तया सह समुपाविशदासेदिवान् । केचित्तु स्त्रीपुरुषयोरेक त्रावस्थितिर्न युक्तेति तस्मिन्नेव शयनीये शयन संव न्धिगृहे पृथगासने राजोपाविशदित्यर्थमाहुः । तामेव विशिष्टि - ससंभ्रमेति । ससंभ्रमं सचकितं सवि- लासं वा परिजनेन सेवकजनेन प्रसारितं विस्तारितं यत्करतलं हस्ततलं तदेवालम्बनमाधारस्तस्यावष्टम्भेन सहायेन वामेऽपसव्ये जानौ नलकीले विन्यस्तः स्थापितो हस्त एव पत्रो ययेति गर्भवतीज्ञापकं लक्षणम् । प्रचलितानि भूषणानि तेषां मणिरवेण मुखरं वाचालं यथा स्यात्तथेति क्रियाविशेषणम् | अलमित्यनेनादराति- शयः सूचितः । ततश्च शुकनासोऽपि शयनान्तर आसनान्तरे न्यत्रीददुपविष्टवान् । तदेव विशेषयन्नाह - प्रमृ. ऐति । प्रमृष्टमुज्वलीकृतं यत् चामीकरं सुवर्ण तस्य चारवो मनोहराः पादा यस्मिन् (यस्य ) | क्वचित् 'चा- रुपट्टे' इति पाठः । तत्र चारुः सुन्दरः पट्टो दृढवन्धो यस्मिन्नित्यर्थः । धवलः श्वेत उपच्छद उत्तरपटो यस्मिन् । आसन्ने समीपवर्तिनि । अथेत्यानन्तर्ये । तां विलासवतीमुपारूढः प्राप्तो गर्भो ययैवंभूतामालोक्य निरीक्ष्य राजा पार्थिव इत्युवाचेत्यब्रवीत् । कीदृक् । प्रस्तुतः प्रारब्धः परिहासो नर्मवचनविन्यासो येन सः । कीटजेन हर्षस्य प्रमोद यो असंभव साधार केन