पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/११८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२० कादम्बरी । एवं तस्य राज्ञो मंत्रिविनिवेशित राज्यभारस्य यौवनसुखमनुभवतः कालो जगाम । भू- यसा च कालेनान्येषामपि जीवलोकसुखानां प्रायः सर्वेषामन्तं ययौ । एकं तु सुतमुखदर्शन - सुखं न लेभे । तथोपै॑भुज्यमानमपि निष्फलपुष्पदर्शनं शरवणमिवान्तःपुरमभूत् | यथा यथा च यौवनमतिचक्राम, तथा तथा विफलमनोरथस्यानपत्यताजन्मावर्धतास्य संतापः | विषयोप- भोगसुखेच्छाभिश्च मनो विजेंन्त्रे । नरपतिसहस्रपरिवृतमध्यसहायमिव चक्षुष्मन्तमध्यन्व- मित्र, भुवनालम्बनमपि निरौलम्बमिवात्मानमर्मन्यत । अथ तैस्य चन्द्रलेखेव हरजटाकलापस्य, कौस्तुभप्रमेव कैटभारातिवक्षःस्थलस्य, वनमा- लेव मुसलायुधस्य, बेलेव सागरस्य, मदलेखेव दिग्गजस्य, लतेव पोंदपस्य, पुष्पोद्गतिरिव सुरभिमासस्य, चन्द्रिकेव चन्द्रमसः कमलिनीव सरसः, तारापङ्किरिव नभसः, हंसमालेव मानसस्य, चन्दनवनराजिरिव मलयस्य, फणामणिशिखेव शेषस्य, भूषण- मभूत्रिभुवनविस्मयजननी जननीव वनिताविभ्रमाणां सकलान्तःपुरप्रधानभूता महिषी एवमिति । एवं पूर्वोक्तप्रकारेण तस्य राज्ञस्तारापीडस्य मन्त्रिण्यमात्ये विनिवेशितः स्थापितो राज्यभरो येन स तथा तस्य यौवन सुखं तारुण्यसौख्यमनुभवतोऽनुभवविषयीकुर्वतः कालोऽनेहा जगाम गतवान् । भू- यसा भूयिष्टेन कालेन प्रायो बाहुल्येनान्येपामपि जीवलोकसुखानां प्रजालोकसुखानां सर्वेषामन्तं पारं ययौ । लोकानामपि सर्वविषयानुभवो जात इत्यर्थः । एकं त्विति | तु पुनरर्थे । सुतमुखदर्शनजनितं यत्मुखं त- देकं न लेभेन प्राप । तथेति । तथा तेन प्रकारेणोपभुज्यमानमुपभोगविषयी क्रियमाणमपि शरवण मि बान्तःपुरमभूत् । उ॒भयं विशिष्ट - निष्फलेति | निर्गतं फलं यस्मादेवंभूतं पुष्पं प्रसूनं रजश्च स्त्रीणां तस्य दर्शनं यस्मिन् । यथेति । यथा यथा येन येन प्रकारेण यौवनं तारुण्यम तिचक्रामा तिक्रमितवान् । तथा तथा तेन तेन प्रकारेण | विफलेति | विफलो निष्फलो मनोरथो यस्य स तथा तस्याश्य तारापी- इस्य राज्ञः संतापो मानसी व्यथावर्धत वृद्धि प्राप | संतापं विशिनटि – अनपत्येति । अनपत्यतासंतानत्वं तस्माज्जन्मोत्पत्तिर्यस्य स तथा | विषयेति । विपयाणां स्रक्चन्दनादीनां य उपभोगोइसकृद्भोगरतजनितं यत्सुखं सातं तस्येच्छा अभिलापाखाभिर्मनश्चित्तं विजघ्ने विरक्तं वभूव | नरेति । नरपतीनां राज्ञां यत्सहस्रं तेन परिवृतं सहितमप्यसहायमद्वितीयमिव चक्षुष्मन्तं सनेत्रमण्यन्धमिव गताक्षमिव भुवनालम्वनमपि निरा- लम्बमिव निराधारमिवात्मानं स राजामन्यताज्ञासिष्ट | अथेति । तस्य राज्ञो विलासवती नाम महिपी पट्टराशी भूषणमलंकृतिरभूदित्यन्वयः | कस्य केव | हरजटाकलापस्य शंभुजटाजूटस्य चन्द्रलेखेव शशिकलेव | कैटभेति | कैटभारातिर्विष्णुरतस्य वक्षःस्थलं भुजान्तरं तस्य कौस्तुभो मणिस्तस्य प्रभा कान्तिस्तयेव । मुसलायुधस्य वलभद्रस्य वनमालाभरणवि- शेषः सेव | सागरस्य समुद्रस्य वेलेव जलवृद्धिरिव | दिग्गजस्य दिङ्गागस्य मदलेखेव दानराजिरिव | पादप-