पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/११६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११८ कादम्बरी । रेमे । कदाचिन्मृगपतिरिय स्कन्थावलम्बि केसरमाल: क्रीडा पर्वतेषु विधवार । कदाचिन्मधुकर इव विजृम्भमाणकुसुममुकुलदन्तुरेषु लतागृहेषु बभ्राम | कदाचिनीलपर्टेविरचितात्रगुण्ठनो बेहुलपक्षप्रदोपदत्तसंकेता: सुन्दरीरभिसार । कदाचिञ्च विघटितकनकपाटं प्रकटवातायनेत्र- नवरतदह्य मानकृष्णागुरुधूमरक्तैरिव पाररावतैरेधिष्ठित विटङ्गेषु प्रसाद कुक्षिषु कतिपयाप्तसुहृत्प रिवृतो वीणावेणुमुरज मैनोहरमवरोधसंगीतकं ददर्श | किंबहुना यद्यदतिरमणीयमविरुद्धमाय- त्यां तदात्वे च तत्तद्नाक्षिप्त चेताः परिसमाप्तत्वादन्येषां पृथिवीव्यापाराणां सिपेवे, नत्यतिव्य- सनितया । प्रमुदितप्र॒जस्य परिसमाप्तसकल मँही प्रयोजनस्य नरपतेर्विषयोपभोगलीला भूषणम् । मानसं यस्य तथा । पक्षे ऋणितमणिनूपुरवयो निनादस्तेनानन्दितं मानसं सरो येनेति विग्रहः । कदाचि दिति । मृगपतिरिव महानाद इव क्रीडापर्वतेषु क्रीडाशैलेषु विचचार व्यहापत् । तमेव विशिष्टि-स्क न्धेति । स्कन्धावलम्बिनी केसरोपयुक्ता माला खग्यस्य स तथा । पक्षे स्कन्धावलम्बिनी केसरमाला सटाप- निर्यस्येति विग्रहः । कदाचिदिति | मधुकर इव भ्रमर इव लतागृहेषु वल्लीगृहेषु वभ्राम भ्रमणं चकार । कीदृशेषु लतागृहेषु । विजृम्भेति | विजृम्भमाणानि यानि कुसुममुकुलानि तैर्दन्तुरेषु विषमेषु | कदाचि दिति | सुन्दरी: प्रमदा अभिससार सेवितवान् । कीदृक् | नीलेति । नीलपटेन श्यामपटेन विरचितं विहि तसवगुण्ठनं शिरोवेष्टनं येन स तथा | सुन्दरीर्विशिनटि - बहुलेति । बहुलपक्षस्य कृष्णपक्षस्य यः प्रदोषो ग्रामिनीमुखं तत्र दत्तः संकेतो याभिस्ताः | कदाचिञ्चेति । अवरोधस्यान्तः पुरस्य संगीतकं नृत्यादि दद- शद्राक्षीदित्यन्वयः। केषु प्रासादा भूपगृहास्तेषां कुक्षयो मध्यभागास्तेषु | तानेव विशिनष्टि - विघटितेति । विघटितमुद्घाटितं कनककपाटं स्वर्णकपाटं यथा स्यात्तथेति कियाविशेषणम् । प्रकटा वातायनाः स्पष्ट गवाक्षा येषु । अनवरतेति । अनवरतं निरन्तरं दह्यमानो यः कृष्णागुरुः काकतुण्डस्तस्य धूमो दहन- क्रेतनस्तेन रक्तैरिव रजितरिव । एवंभूतैः पारावतै कलरवैरधिष्टिता आश्रिता विटङ्काः कपोतपाल्यो येषु । कतीति । कतिपयाः कियन्तो य आप्ताः प्रत्ययिताः | 'आप्तप्रत्ययितौ समौ' इति कोशः । एवंविधाः सुहृदो मित्राणि तैः परिवृतः सहित इति राज्ञो विशेषणम् | वीणा वकी, वेणुर्वशः, तैंमनो- मुरजो मृदङ्गः, हरमतिरमणीयम् । संगीतविशेषणम् । किं वहुनेति । किं बहु वक्तव्येन । यद्यदनिर्दिष्टनामकं वस्त्व- तिरमणीयमायत्यामुत्तरकाले । 'आयतिस्तृत्तरः कालः' इति कोशः । तदात्वे चेति । 'तत्कालस्तु तदात्वं स्यान्' इति कोशः । अविरुद्धं नीतिशास्त्रप्रतिषिद्धं तत्तत्सिपेवे सेवितवान् | अतिसुन्दरेण वस्तुनाक्षिप्तश्चे- त्तदा व्यसनमेवेत्याह-~-अनाक्षिप्तेति । अनाक्षिप्तमनाकुलं चेतो यस्य स तथा । अत्रार्थे हेतुं प्रदर्शयन्नाह - परीति । अन्येषां पृथिवीव्यापाराणां परिसमाप्तत्वात्परिपूर्णाभूतत्वात् । न त्वतिव्यसनितया तदासक्ततयेत्य- र्थः । एतदेवार्थान्तरन्यासेन विवृणोति – प्रमुदितेति । प्रमुदिता मुदं प्रापिताः प्रजाः प्रकृतयो येन स तथा तस्य । परीति | परिरामाप्तं परिपूर्णकृतं सकलं समग्र महीप्रयोजनं वसुधाकृत्यं यस्यैवंभूतस्य नरपतेः । विषयेति | विषयाः स्रक्चन्दनादयस्तेषामसकृदुपभुज्यन्त इत्युपभोगास्तेषां लीला क्रीडा भूषणमलंकारः । -