पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पापा गुणच्छदाः, गवाक्षषु जालमागाः, शाशकृपाणकवचषु कलकाः, रतिकलहपु दूतप्रष- णानि, सार्यक्षेषु शून्यगृहा नै प्रजानामासन् । यस्य च परलोकाद्भयम्, अन्तःपुरिकाकुंन्त- लेपु भङ्गः, नूपुरेषु मुखरता, विवाहेषु करग्रहणम्, अनवरतमखाग्निधूमेनाश्रुपातः, तुरङ्गेषु कशाभिघातः मकरध्वजे चापध्वनिरभूत् । तस्य च राज्ञः कलिकालभयपुजीभूतकृतयुगानुकारिणी, त्रिभुवनप्रसवभूमिरिव विस्तीर्णा, मजन्मालवविलासिनीकुचतटास्फालनजर्जरितोर्मिमालया जलावगाहनागतजयकुश्चरकुम्भ- नान्यत्र । अपराधाभावात् । शास्त्रेष्विति । शास्त्रेषु सिद्धान्तेषु चिन्ता चिन्तनम् । नान्यत्र । समग्रवस्तुनः सद्भावात् । स्वप्नेविति । स्वप्नदशायां विप्रलम्भा वियोगाः । नान्यत्र । पुरुषायुषजीविखाजनस्येति भावः छत्रेविति । छत्रे वातपत्रेषु कनकदण्डाः सुवर्णयष्टयः । नान्यत्र कनकदण्डाः । दण्डेन सुवर्णग्रहणम् । खखमार्गानतिक्रमेण तासां प्रवर्तनात् । ध्वजेविति । ध्वजेषु पताकासु प्रकम्पाः प्रकर्षण वेलनम् । नान्यत्र । भीतेरभावात् । गीतेविति। गीतेषु गानेषु रागा वसन्तादयः शास्त्रीयाः, देशीया धनाश्रीप्रभृतय- स्तेषां विलसितानि चेष्टितानि । नान्यत्र रागाः क्रोधादयस्तेषां विलसितानि हननादिरूपाणि । तादृग्राग- द्वेपागावात् । करिष्विति । करिषु हस्तिपु मदो दानं तस्य विकारा विकृतयः । नान्यत्र मदोऽहंकारस्तस्य विकारास्तत्तद्विचेष्टितानि । मदो रागस्तस्य विकारा इति वा । सर्वदा गुरुवचनामृतास्वादमेदुरितमान- सलात् । चापेष्विति । चापेषु धनुःपु गुणस्य ज्यारूपस्य छेदः त्रुटनम् । नान्यत्र गुणस्य शौर्यादे- विच्छेदः । सर्वदा सदाचारित्वात् । गवाक्षेष्विति । गवाक्षेषु वातायनेषु जालमार्गा वातागमनहेतवो जा- लिकाः । नान्यत्र कुवेणीस्थापनपन्थानः । सर्वदाभयदानप्रवृत्तत्वात् । शशीति । शशी चन्द्रः, कृ- पाणं खजम्, कवचः संनाहः, एतेषां द्वन्द्वः । एषु कलङ्काश्चिह्नानि । नान्यत्र कुलमालिन्यादिहेतवो व्यभिचारादिदोषाः । रतिकलहेविति । रतिकलहेषु कामकेलिपु विग्रहेषु दूतप्रेषणानि संचारकगम. नानि । नान्यत्र । सर्वदा प्रबलविरोधिनोऽभावात् । सार्यक्षेष्विति । सारयः खेलन्यः, अक्षाः पाशकाः, तेषु शून्यगृहाः शान्यस्थानानि । नान्यत्रोद्वसगृहाणि । राजदेयद्रव्यजनितपीडाभावात् । यस्य चेति । यस्य राज्ञः । अभूदिति क्रियान्वितम् । कर्मीभूतमाह-भयमिति । परलोकादेव जन्मान्तरादेव तत् । न तु शत्रुलो- कात् । तथा यस्य राज्ञः । अन्तःपुरे भवा आन्तःपुरिकाः । भवार्थे टकू । तासां नायिकानां कुन्तलेपु के- शेषु भो वक्रता । नान्यत्र । तथा नूपुरेपु हंसकेषु मुखरतानुरणनरूपा । न तु प्रजासु मौखयं वाचालत्वम् । विवाहेविति। विवाहेधूपयामेषु करग्रहणं हस्तग्रहणम् । न तु प्रजासु करो राजदेयद्रव्यं तद्वहः । अनवरतेति । अनवरतं निरन्तरं मखाग्निधूमेन यज्ञाग्निधूमेनाश्रुपातो नेत्रजलच्युतिः । न तु शोका- दिना । तुरङ्गेति । तुरसेप्वपु कशा चर्भदण्डस्तस्याभिघातः महारः । नान्यत्र । मकर इति । मकरध्वजे कंदर्प चापस्य धनुषो ध्वनिः । अन्यत्र न भयागावात्तदारोपणमिति भावः । तस्यति । तस्य च राज्ञो राजधान्यासीदित्यन्वयः । तां विशेषयन्नाहकलीति । कलिकालाद्यद्भयं नासरतस्मात्पुजीभूतं सगुदायीभूतं यत्कृतयुगं सत्ययुगं तदनुकरोतीत्येवंशीला या सा । विस्तीर्णेति । वि. स्तीमा विपुला । केव । त्रिभुवनेति । त्रयाणां भुवनानां समाहारस्त्रिभुवनं तस्य प्रसवभूमिरुत्पत्तिस्थलं