पृष्ठम्:करणकुतूहलम्.djvu/९७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

(९२) करणकुतूहलम्। ग्रहणे चन्द्रो धूम्रवर्णः स्यात्, अर्द्धग्रहणे कृष्णः, सर्वग्रहणे पिशङ्गः, सूर्यस्तु सर्वदा सर्वग्रहणे कृष्ण एव, सूर्यग्रहणं विंश- तिविश्वाधिकं न भवति॥९॥करणकुतूहलवृत्तावेतस्यामिष्टदे- वताकपया।गणककुमुदकौमुद्यां व्याख्येयं रविग्रहे नियतम्॥१॥ इतिकरणकुतूहलवृत्तौ सूर्यपर्वाधिकारः समाप्तः॥ ५॥ अथोदयास्ताधिकारो व्याख्यायते, तत्रादौ जीव- स्योदयास्तौ स्थूलं तथा शार्दूलविक्रीडितद्वयेनाह- इष्टोऽह्नां निचयोऽब्ददिग्लवयुतः पञ्चाभ्रभूवर्जितो भक्तो नन्दनवाग्निभिस्तिथिमितैः शेषैर्गुरोरुद्गमः । अस्तो वेदगजाग्निभिस्तदधिकैरूनैर्गतैष्यर्दिनैस्ता- त्कालार्कघटीफलं चतिथिवत्सूर्याहतं शेषकैः॥१॥ राशिभ्यामुदये युतादिनकरादस्ते त्रिभिः संयुता- द्वच्चोक्तार्कघटीफलं च खगुणैः सूक्ष्मं धनर्णं तथा। संक्रान्तेरुदयात्खखाग्निरहितात्तिथ्याहतात्स्वोदये- नाप्तं तच्च गुरूदये धनमृणं चास्ते तु तत्सप्तमात्॥२॥ इष्टोऽहर्गणः करणगताब्दानां दशमांशेन युतः पञ्चाभ्रभुव- र्जितः पञ्चोत्तरशतेन १०५ रहितः नन्दनवाग्निभि३९९र्भक्तो लब्धस्य प्रयोजनाभावाल्लब्धं त्याज्यं शेषैस्तिथिमितैःपञ्चदश- १५ मितैः गुरोरुदयो ज्ञेयः, वेदगजाग्निभिश्च ३८४ अधिकैः शेषैर्गतावुदयास्तौ तदूनैः शेषैरेष्यौ भाविनौ । अथ शेषस्पष्टी- करणं तात्कालार्क इति तस्मिन्काले यस्मिन राश्यंशेऽर्को भवति तस्य घटीफलं सूर्याहतं द्वादशगुणं षष्टया विभज्य दिना- CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri