पृष्ठम्:करणकुतूहलम्.djvu/८४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

गणककुमुदकौमुदीटीकासमेतम् । ( ७९ ) वित्रिभलग्नदर्शान्तकालीनसूर्ययोर्विवरस्य या ज्या सा खरामै ३० र्ह्रता भक्ता लम्बनं घट्यादि मध्यलम्बनं स्यात्त- दुन्नतांशज्यया गुणितं नखेन्दुभि १२० र्भजेल्लब्धं स्फुटं लम्बनं भवति, तत्स्पष्टलम्बनं वित्रिभे रवेरधिके तिथौ दर्शान्ते धनम्, रखेहींने वित्रिभलग्ने तथर्णमेतावता पूर्वकपाले खावृणं पश्चिमकपाले धनमिति निर्णीतिर्ज्ञेया, त्रिभोनलग्नेऽ- धिक इति लक्षणे कदाचित्पूर्वकपालेऽपि धनं पश्चिमकपाले- ऋणमिति सम्भवति तस्माद्युक्तिसहायपक्षोऽसौ न भवति । मध्यलग्नसमे भानौ हरिजस्य न सम्भव इत्यादिपक्षो युक्ति- मान् दृश्यते । परन्तु यद्यत्पद्यैर्महद्भिरङ्गीकृतं तदस्मदाद्यै- रप्येवं व्याख्येयमेवमसकृत्ततो लम्बनसंस्कृततिथिर्लग्नं साध्य- मेवं पुनरपि यावत्स्थिरं लम्बनं स्याद्यथा सायनं वित्रिभम् ५। २५ । १४ । ५८ सायनोऽर्कः ३ । १८ । ३२ । २८ अनयोरन्तरम् २ । ६ । ४२ । ३० अस्य भुजज्या ११०। २ खरामभक्ता लब्धं घटिकादि ३ | ४० एतन्मध्यलम्बनं तदुन्नतज्यया ११० । ३५ गुणितम् ४०५ । २८ नखेन्दु- भिर्भक्तं लब्धं लम्बनम् ३ । २ रवेः सकाशात्रिभोनलग्न- मधिकं पश्चिमकपालत्वाच्च दर्शान्ते २९ । २४ धनं जातम् ३२ । ४६ एवमसकृत् ३२ । ४६ यातैष्यनाडीत्यादिना रविफलम् ३१ । ६ औदयिके सूर्य धनं कृतमथवा लम्बनेन संगुण्य षष्ट्या विभज्य लब्धं कलादि समकलसूर्य- मध्ये लब्धं धनं कार्यमृणे लम्बने हीनं कार्यमिति कृते CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri