पृष्ठम्:करणकुतूहलम्.djvu/८३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

(७८) करणकुतूहलम्। धयेत् । सूर्यादूनस्तदा वाच्यो वित्रिभस्त्वधिकोऽपि सन् १ अथ वित्रिभलमस्य सायनांशस्य क्रान्तिः कार्यांशादिस्तस्याः क्रान्तेः स्वदेशीयांशानां भिन्नदिक्त्वेऽन्तरमेकदिक्त्वे योगः कार्यस्तेषां दिगन्तरेऽधिकस्यैव दिक्, योगे सैव दिङ्नतांशाः स्युस्ते नतांशाः खाङ्केभ्यो नवतिभ्य ९० श्च्युताः शेषमुन्न- तांशाः स्युः । तथा तात्कालिको रविः३। ० । ३५।८ दर्शान्तघटी २९ । २४ अत्र सुखादुत्क्रमलग्नं सायनम् ८ । २५।१४। ५८ वित्रिभम् ५। २५ । १४ । ५८ अस्मात्प्राग्वत्क्रान्तिरंशादिः । ५४ । ५८ उत्तराः, सी- रोह्यामक्षांशाः दक्षिणाः २४ । ३५। ९ भिन्नदिक्त्वादन- योरन्तरं जाता नतांशाः २२। ४० । ३२ अक्षांशशेषत्वा- दक्षिणाः, यतोऽक्षांशाः सदैव दक्षिणा भवन्ति नवति ९० भ्यः शुद्धा जाता उन्नतांशाः६७।१९। २८ ज्या ११०॥ ३५ नतांशज्या ४६ । ५ ॥१॥ अथ लम्बननत्योरानयनं वंशस्थद्वयेनाह- त्रिभोनलग्नार्कविशेषशिञ्जिनी खरामभक्ता घटि- कादिलम्बनम् । तदुन्नतज्या निहतं नखेन्दुभिर्ह्रतं स्फुटं स्यात्खमृणं तिथौ क्रमात् ॥२॥ त्रिभो- नलग्नाधिकहीनके रवेस्ततोऽसकृल्लग्नविलम्बनादि- कम् । नतांशजीवार्कलवान्विताष्टहन्नतांशदिकू चांगुलपूर्वका नतिः॥३॥ CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri