पृष्ठम्:करणकुतूहलम्.djvu/७२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

गणककुमुदकौमुदीटीकासमेतम् । (६७) तांशास्तेषां भुजं कृत्वा ज्या साध्या ततः प्राग्वदक्षवलनमाने- यम् ।उक्तं च पर्वमालायाम्,-स्वरात्रौ शेषजा नाड्यो द्युदलं स्पर्शमोक्षयोः । नतं स्यात्स्वदिनं प्राग्वत्तन्नाड्यःषड्गुणा लवाः ३ तद्भुजज्या पलांशघ्नी त्रिज्याभक्ता लवादिकम् । वलनं स्यादुदग्याम्यं ग्रहणं प्राक्परस्थिते२पुनरुक्तम्, रात्रेः शेषघटी- युक्तं दिनार्द्धं प्राङ्गतं रवेः । रात्रेर्घटीयुक्तं दिनार्द्धं प्रत्यङ्नतं रवेः १ दिनशेषघटीयुक्तं निशार्द्धं प्राङ्गतं भवेत् । सूर्योदया- पुड्निशार्द्धं प्रत्यगिन्दोर्नतं मतम् २ ततः खाङ्काहतमित्या- दिकार्यम् । ब्रह्मतुल्यभाष्ये तु ग्रस्तोदये स्पार्शिकनतं ग्रस्तास्ते मौक्षिकं नतम् । स्वदिनार्द्धाद्यावदधिकं भवति तस्य स्वदिना- र्द्धवशादंशान्प्रसाध्य नवते ९० र्विशोध्य तज्ज्यां कृत्वाऽक्षांशैः सङ्गण्य त्रिज्यया भाज्यं तदक्षजं वलनं स्यात्। ग्रस्तोदये सौम्यं ग्रस्तास्ते दक्षिणमितिाएतदुदाहरणं यथास्थानं दर्शयिष्यामः। अस्तात्स्पर्शघटी७चन्द्रदिनार्द्धम् १६।४९अनयोरन्तरं स्पर्शन- तं९।४९प्राक खाङ्काहतं८८३।३० स्वदिनार्द्धेन १६।४९भक्तं लब्धं नतांशाः ५२।३२।१३एषां ज्या ९५।२ अनयाक्षांशाः २४।३५।९ गुणिताः २३३६।२८।५८ त्रिज्यया १२० भक्ते लब्धमाक्षजवलनमंशादिः १९।२८।१४प्राङ्नतत्वादुत्त- रम्, अथायनांशाःस्पर्शकालः 7यात्येष्यनाडीत्यादिना स्पार्शि- कश्चन्द्रः १।२९।११।३८ सायनः २।१७।१९।२०कोटि ०।१२।४।४.ज्या २६।१बाणैर्भक्ता लब्धमायनं वलनम् CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri