पृष्ठम्:करणकुतूहलम्.djvu/६६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

गणककुमुदकौमुदीटीकासमेतम् । (६१) ग्रहे चन्द्रबिम्बं छायं भूभा छादिका। सूर्यग्रहणे सूर्यबिम्बं छाद्यं चन्द्रबिम्बं छादकः ॥ ८ ॥ अथ ग्रासप्रमाणमुपजात्याह- यच्छाद्यसंछादकमण्डलैक्यखण्डं शरोनं स्थगितं तदाहुः । छन्नं पुनश्च्छाद्यविवर्जितं तत्खच्छन्नमेत- निखिलग्रहे स्यात् ॥९॥ छायच्छादकबिम्बमानयोर्योगस्यार्द्धं शरेण हीनं स्थगित ग्रासप्रमाणं छन्नमित्यर्थः। तच्चेच्छरोनं भवति तदा ग्रहणाभावः छन्नं छाद्यमानेन हीनं सदंगुलादिखच्छन्नं स्यात्, एतत्तुल्यमाकाशं बिम्बादुपरि छादयति, परमखच्छन्नं नवांगुलासन्नम्, छन्नं विंशत्यंगुलासन्नम् एतत्सर्वग्रहणे सम्भवति । यथा छायं चन्द्रबिम्बम् ११ । १२ छादकं भूभाबिम्बम् २८ । २२ उभयोरैक्यार्द्धम् १९ । ४७ यदा शराभावस्तदा परममानैक्यखण्डमंगुलविंशत्यासन्नम् १९॥ ४७ शरेण २। ५७ हीनं स्थगितम् १६। ५० छन्नं चैतच्छायमानेन ११। १२ विवर्जितं जातं खच्छन्नम् ५। ३८ अथ विंशोपकार्थ क्षेपकश्लोक:-"छन्नं नख २० गुणं रुत्वा छाद्यमानेन भाजितम् । छन्नम् १६ । ५० विंशति गुणम् ३३६।४० छाद्येन ११। १२ भक्तं लब्धं विंशो- पका भवन्तीति व्यवहारः ३०।३ परमविंशोपकाश्चत्वारिंश- दासन्ना भवन्ति ॥ ९ ॥ - २० CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri