पृष्ठम्:करणकुतूहलम्.djvu/६५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

(६०) करणकुतूहलम् । बिम्बं विधोः स्यात्स्वगतिर्युगाद्रिभक्ता खेर्दस्रहता शिवाप्ता ॥७॥ त्रिघ्नीन्दुभुक्तिस्तुरगांगभक्ता भूभा- र्कभुक्त्यद्रिलवेन हीना । राहुः कुभामण्डलगः शशांक शशांकगश्छादयतीनबिंबम् ॥ ८॥ चन्द्रस्य स्फुटभुक्तिर्युगाद्रिभिश्चतुःसप्ततिभि ७४ र्भक्ता लब्धं चन्द्रबिम्बांगुलानि स्युः, रविस्पष्टागतिर्दस्त्राभ्यां २ गुणिता शिवैरेकादशभि ११र्भक्ता लब्धं रविबिम्बं स्यात् । अथ चन्द्रभुक्तिस्त्रिगुणा तुरगाङ्गैः सप्तषष्टिभि ६७ र्भक्ता सूर्य- भुक्तेः सप्तांशेन ७ हीना भूमा छायाबिम्बं स्यात् । भूछाया- वद्विधुकक्षा तावद्वर्तते, यथा चन्द्रगतिः ८ २९ । ३५ युगाद्रि ७४ भक्ता लब्धं चन्द्रबिम्बम् ११ । १२ अंगुला- दिः । रविगतिः ६१ । २१ दस्रहता १२२ । ४२ शिव ११ भक्ता लब्धं रविबिम्बम् ११।९ चन्द्रगतिः ८२९ । ३ त्रिगुणा २४८८ । ४५ तुरगांग ६७ भक्ता लब्धम् ३७ । ३२ रविभुक्तेः ६१॥ २१ सप्तमांशेन ८ । ४५ हीनं भूछायाबिम्बम् २८ । २२ । स्वस्वयोजनबिम्बानयनम् । स्वस्वपातकलाभिः कक्षा गुणिता चक्रकला २१६०० भक्ता लब्धं योजनात्मकं बिम्बं भवति । एवं कृतरवेर्बिम्बं योजना- त्मकम् ६५२२ चन्द्रस्य ४८० एवं सर्वेषां यथास्थानं प्रदर्शयिष्यामः । अथ छादकमाह राहुर्भूभामण्डलगश्चन्द्रं छादयति, चन्द्रमण्डलगः सूर्यबिम्बमाच्छादयति । अतश्चन्द्र- CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri