पृष्ठम्:करणकुतूहलम्.djvu/६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

- गणककुमुदकौमुदीटीकासमेतम् । (५५) फलक्षयः स्फुटतरौ ग्रहणेऽथ ततस्तिथिः॥२॥ इति नतं क्रममौर्विकयोदितं क्रमजमेव हि जिष्णु- जसम्मतम् । यदपरैः कृतमुत्क्रमजीवया बलनदृ- ङ्नतकर्म न तन्मतम् ॥३॥ द्युदलगतघटीनामित्यादिनोक्तेनेति-नतेन हीनैः पुनर्नतेनैव गुणितैः खगुणैस्त्रिंशद्भिः खशरभानुभुवः सार्द्धशतद्वयैकादशस- हस्राणि भक्ते लब्धमंशादि दशमी रहितं रविहरः स्यात्, स एव रविहरः स्वदशांशेन रहितश्चन्द्रहरः स्यात्,अथार्कमन्दफलं रविहरेण चेद्भक्तं तदारविफलं कलादिकं रविनतफलम्५स्यात् चन्द्रमन्दफलं चन्द्रहरेण भक्तं कलादिकं चन्द्रनतफलं स्यात्, रविनतफलं पश्चिमकपालस्थे रवौ धनं पूर्वकपालस्थेऽर्के ऋणम् अर्द्धरात्रान्मध्याह्नपर्यन्तं पश्चिमकपालमित्यर्थः, अथ चन्द्रग्र- हणे तु रात्रिरेव दिनत्वेन व्यवह्रियत इति चन्द्रस्य वैपरीत्येन कपालव्यवस्था,मध्याह्नादर्धरात्रपर्यन्तं पूर्वकपालः, अर्द्धरात्रा- न्मध्याह्नपर्यन्तं पश्चिमकपाल इत्यर्थः, अथ चन्द्रे पूर्वकपा- लस्थे चन्द्रस्य मन्दफले ऋणे सति नतफलं चन्द्रे धनमर्थात्प- श्चिमनते चन्द्रे फले ऋणे सत्यृणम्- इतरथा फले धने सत्यु- भयतः प्राक्कपालस्थे परकपालस्थे वा चन्द्रे नतफलमृणम्,एव- मेतौ ग्रहणे स्फुटतरौ विधाय ताभ्यामेवात्र तिथिः साध्या । कैश्चिदित्यत्रासकदिदं कर्म कृतं परमनुक्तत्वान्नासकृत्क्रियते, तथा कैश्चिदपि सूर्याचन्द्रमसोर्भुक्तिरपि नतेन संस्कृता तच्चैवं CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri