पृष्ठम्:करणकुतूहलम्.djvu/५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

4 गणककुमुदकौमुदीटीकासमेतम् । (४७) एवमन्यग्रहं सूर्य प्रकल्प्य चरखण्डैश्चरं प्रसाध्य दिनमान कार्य- न्तत्स्वसावनदिनम्भवति, सूर्यस्य नक्षत्रसावनं, दिनं विरूपयो- गित्वाल्लिख्यते।तथा च सूर्यसिद्धान्ते-"ग्रहोदयप्राणहता खखाष्टै- कोद्धृता गतिः।चक्रासवो लब्धयुता स्वाहोरात्रासवः स्मृताः॥" इति षङ्गुणितानि पलान्यसवो भवन्ति, वृषराश्युदयासुभिः १५ ३० रविगतिः ५७। २८ गुणिता ८७९२४ राशिकलाभि- १८०० र्भक्ता लब्धा असवः ४८ एतच्चतुर्थभागेन १२ षड्भुक्ते पलरूपेण २ पञ्चदश १५ युताः १५ । २ पूर्वागतचर- पलैः ८६ उत्तरगोलत्वाद्युताः १६।२८ जातन्नाक्षत्रसावन- दिनार्द्धमेतस्त्रिंशद् ३० घटिकास्यश्च्युतं जातन्नाक्षत्रसावन- रात्र्यर्द्धम् १३।२२ दिनार्द्धस्य दिनगतघटीनाञ्च यदन्तरं तन्नतं स्यात्, गतघटिका दिनार्द्धमध्येन पतन्ति तदा प्राङ्गतम्, गत- घटीषु दिनार्द्धश्चेत्पतति तदा परनतमित्यर्थः । तेन नतेन हीनं दिनार्द्धमुन्नतम्भवति, अत्रास्मिन्कालसाधनादिष्वेतन्नतं ज्ञेयम् । अन्यत्र जातके त्वन्यथैव यथा दिनार्द्धम् १६।२६इष्टघटीभिः ११ हीनञ्जातं प्राङ्गतम् ५।२६तेन नतेन ५।२६हीनं दिनार्द्धं १६।२६ जातमुन्नतम् ११०॥ अथेष्टकालाच्छायां छायाया इष्टकालं च द्रुतविलम्बि- तपञ्चकेनाह- दिनदलं विशरं खहरो भवेन्नतकृतिःपृथगभ्रशरा हताः । खखनवाढ्यपृथक्स्थितया हृताः खहरतः पतितोऽभिमतो हरः॥ ८॥ अथ नतं यदि पञ्चद- CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri