पृष्ठम्:करणकुतूहलम्.djvu/५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

(४६) करणकुतूहलम्। । ३। २९ । ५२ भोग्यांशाः २६।३।८ स्वोदयमीन- पलैः २२३ गुणिताः ५९०९ । ५९ त्रिंशद्भक्ते लब्धम् १९७ तनुभोग्योऽर्कशुक्तः १८० अनयोर्योगः ३७७ लग्ना- त्सूर्यपर्यन्तमन्तरे राशिमेषस्तस्य पलैः २२३ युतः ६०० पष्टिभक्ते लब्धा घट्यः १० एवं शेषरात्रिगतघट्यः १० इष्टागताः, अथेष्टकालःषष्टियः शोध्यः प्राग्दिनस्योदयाद्रत- घट्यः ५० जाताः, अथ यदा रात्रेरिष्टकालाल्लग्नं साध्यते तदा रविः सपथः कार्यस्तस्माल्लग्नं प्राग्वद्रात्रीष्टकाले साध्यं रात्रीष्टकालेऽपि सषड्भार्काच्च साधनीयम् ॥ ६ ॥ अथ दिनरात्रिप्रमाणन्ततो नतीन्नतानि मालिन्याह- चरपलयुतहीना नाडिकाः पञ्चचन्द्रा द्युदलमथ निशाधै याम्यगोले विलोमम् । द्युदलगतघटीनाम- न्तरं तन्नतं स्यान्नतरहितदिनार्द्धञ्चोन्नतञ्जायतेऽत्र ॥७॥ पञ्चचन्द्रनाडिकाः १५ द्विधा चरपलैर्हीनयुताः कार्या एकत्र हीनाः परत्र युताः सत्यो द्युदलन्निशार्द्धश्च क्रमेण भवति, यत्र युतास्तत्र द्युदलं यत्र हीनास्तत्र रात्रिदलं तदुत्तरगोले मेपादिषड्राशिस्थितेऽर्क इत्यर्थः । याम्यगोले तुलादिषड्राशि- स्थितेऽर्के विलोमं यत्र हीनास्तत्र दिनार्द्ध यत्र युक्तास्तत्र रात्र्यर्द्धं यथा-चरपल ८६ घटीभिः १।२६ उत्तरगोलत्वात्प- ञ्चचन्द्राः १५।० घट्यो युता जातं दिनार्द्धम् १६। २६ हीना जातं रात्र्यर्द्धम् १३। ३४ एतद्रविसावनादलञ्जातम् CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri