पृष्ठम्:करणकुतूहलम्.djvu/३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

गणककुमुदकौमुदीटीकासमेतम् । (३१) द्राक्केन्द्रेति। मन्दस्फुटा गतिः शीघ्रोच्चभुक्तेः शोधयेत् शेषं डाक्केन्द्रभुक्तिर्भवति सा शीघ्रचापभोग्यज्यया गुणिता शीघ्रमूला- नि परमाणि करणशीघ्रफलार्थं चापकरणे यदशुद्धं खण्डं तेन गुण्या पुनः खाब्धिभिश्चत्वारिंशद्भिर्गुणिता सप्तघ्नकरणेन सप्तगु- णेन कर्णसंज्ञकेन भक्ता लब्धं कलाद्यं शीघ्रोच्चभुक्तेः शोध्यं शेषं स्फुटा भुक्तिर्भवति यदा सप्तघ्नकरणाप्तफलस्याधिक्याच्छीघ्रो- चभुक्तिस्तेन हीना न स्यात्, तदा विपरीतशुद्ध्या फलं.शीघ्रो- च्चभुक्त्या हीनं शेषं स्फुटभुक्तिस्तत्र वक्रगतिरितिज्ञेयम्, तदा ग्रहो वक्रीत्यर्थः।कैश्चिद्गतीनामप्यसकृत्कर्म कृतं तदसत् यतोऽ- न्त्यकर्मण्येव गतः साधनं प्राक्तनगतेरनुपयोगित्वात्, अथ विशे- षश्चात्र यदा ग्रहाणां परमशीघ्रफलं तदा मध्यमैव गतिः स्पष्टा ज्ञेया यदुक्तं सिद्धान्तशिरोमणौ-"कक्षामध्यात्तिर्यग्रेखा प्रति- वृत्तसम्पाते । मध्यैव गतिः स्पष्टा परं फलं तत्र खेटस्य"॥ स्वशीघ्रोच्चसमे ग्रहे स्पष्टा शीघ्रगतिः परमोच्यते ॥१६॥ अथोदयान्तरचरादिषूपयुक्तायनांशानुपजात्यर्द्धेनाह- अथायनांशाः करणाब्दलिप्ता युक्ता भवास्तद्युत- मध्यभानोः ॥१७॥ अथानतये मङ्गलार्थं वा करणगताब्दतुल्याभिः कलाभि- र्युक्ता भवा एकादशांशा अयनांशा भवन्ति विशेषश्चात्र यथा- ब्दादावयनांशाः ११ । २४ ग्रन्थकृता चतुर्विंशतिविकला- न्विहायांशा एव भवा एकादशमिता गृहीताः अथास्य साध- 64 CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri