पृष्ठम्:करणकुतूहलम्.djvu/३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

- 72 (३०) करणकुतूहलम्। पुनर्दलीकृताभ्यां ततोऽखिलान्यामेवमसकृद्यावदविशेषःस्यात्ता- वदिति, एवं भौमःस्पष्टतरः स्यात्, यैर्बुधादीनामपि दलीकृताभ्यां प्रथमं फलाम्यामिति कृतं तदसत् लक्ष्मी- दासगणकवचनम्, अथ भौमगतौ विशेषः दलीलताभ्यामिति तथैवोक्तं सिद्धान्तशिरोमणौ-"स्यात्संस्कृतो मन्दफलेन मध्यो मन्दस्फुटोऽस्माञ्चलकेन्द्रपूर्वम् । विधाय शैध्र्येण फलेन चैवं खेटः स्फुटः स्यादसकृत्फलाभ्याम् ॥ दलीकृताभ्यां प्रथमं फलाभ्यां ततोऽ खिलायामसकृत्कुजस्तु।।स्फुटौ रवीन्दू मृदुनैव वेद्यौ शीघाख्यतुङ्गस्य तयोरभावात् ” इत्यत्र दलीलताभ्या- मित्यादि यदुक्तं तत्कुजस्यैव न त्वन्येषामिति भौमः प्रथमाभ्यां द्वाभ्यां फलाभ्यामर्द्धीकृताभ्यां संस्कार्यं ततो द्वाभ्यां समग्राभ्यां संस्कृत्य स्पष्टो भवति किन्त्वसकृत् कर्मणा यावत्स्थिरो भवत्यपरे ग्रहाः समयाभ्यां फलाभ्यां प्रथमाभ्यां च सकृदेव स्पष्टाः भवन्ति ॥ १४ ॥ अथ गतिस्पष्टीकरणं सार्धन्द्रवज्रयोपजात्यर्द्धेनाह- गतेः फलेनैवतुं संस्कृता या मध्या गतिर्मन्दगतिर्भ- वेत्सा । ग्रहस्य मन्दस्फुटझुक्तिवर्जिता स्वाशीघ्रके- न्द्रस्य गतिर्भवेत्सा ॥ १५॥ द्राक्केन्द्रभुक्तिगुणिताशु चापभोगज्यया खाब्धि ४० गुणा च भक्ता । सप्तघ्नप्रकरणेन चलोच्चभुक्तेः शोध्या विशेषा स्फुटखेटभुक्तिः ॥ १६॥ CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri