पृष्ठम्:करणकुतूहलम्.djvu/१३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

गणककुमुदकौमुदीटीकासमेतम् । (१३१) कलास्ता रविचन्द्रयोर्भुक्तियोगेन भाज्या लब्धं दिनादिकं ग्राह्यम् ऊनासु कलासु भोग्यं दिनादिकं ज्ञेयमधिकासु गतं दिनादिकं ज्ञेयम् ॥ १ ॥ अथ सपातस्य गतैष्यज्ञानं सार्द्धान्द्रवज्रयाइ- तात्कालिकौ तौ च तमश्च कृत्वा प्राग्वत्प्रसाध्यो विशिखः कलादिः॥२॥ ओजे पदे युग्मपदे विधुश्चेदेकान्यगोलश्च सपातच- न्द्रात् । ज्ञेयस्तदानीं खलु यातपातो गम्योऽन्य- थात्वेन ततोऽपि कालात् ॥३॥ तात्कालिकाविति । तैः पूर्वागतैरेष्यगतदिनादिभिस्तौ च- न्द्रार्कौ तमश्च पातं च यातैष्यनाडीगुणितेत्यादिना तात्का- लिकान् कृत्वा प्राग्वत् खण्डकेभ्यः कलादिविशिखः शरः साध्यः । अथ गतगम्यलक्षणं चेद्यद्योजपदे सायनो विधुः स्थित्वा सपातचन्द्रादेकगोले भवति तथा युग्मपदे स्थित्वा सपातचन्द्रादन्यगोले भवति तदा प्रागागतात्कालाद्यस्मिन् काले द्वादश षदाराशयो जातास्तस्मादित्यर्थः वक्ष्यमाण- कालेन गतपातो ज्ञेयः; अन्यथा तु चन्द्रो विषमपदे स्थित्वा सपातचन्द्रादन्यगोले तथा युग्मपदे स्थित्वैकगोले तदा पूर्वा- गतकालादेवैष्यः पातो ज्ञेयः। सायनांशो रवि : ७।१।0। ६ सपातचन्द्रः ५। ० । १७ । २१ अनयोर्योगः १२।1 । १७ । २७ अथ द्वादशराशितोऽधिकस्तेनाधिकमंशादि CC-0. Kashmir Research Institute, Srinagar. Digitized byeGangotri