पृष्ठम्:करणकुतूहलम्.djvu/१३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

० (१३०) करणकुतूहलम्। शाके १५३९ लौकिककार्तिककष्णे।10 भौमे गताब्दाः ४३४ अहर्गणः १५८७५१ उदयकाले मध्यमा योधपुरे स्पष्टास्तत्र रविः ६ । १२ । ४५।३२ चन्द्रः ४ । १२ । २।४७ अयनांशाः १८।१४।३४ पातः २।१।२।३१ सायनार्कः ७।३।०।६ चन्द्रः ५।०।१७। २१ ॥ अथ प्रस्तुतमारभ्यते पातसम्भवं गतगम्यज्ञानं च वंश- स्थेनेन्द्रवजयार्द्धेनाह- विना सपातेन्दुमिहायनांशकैर्युतो रविःशीतरुचिश्च गृह्यते । समायनत्वे व्यतिपातवैधृतात्यस्तदैक्ये रसभेऽर्कमे क्रमात् ॥१॥ पातस्तदूनाधिकलिप्तिकाभ्यो भुक्त्यैक्यलब्धैष्य- गतैरहोभिः। इह पातसाधने सपातेन्दु विना रविचन्द्रश्चायनांशैर्युत एव गृह्यते यत्र सपातचन्द्र इति नोक्तं तत्रायनांशयुक्तो रविश्चन्द्रश्च ग्राह्यस्तदैक्ये तयोःसायनांशयो रविचन्द्रयोर्योगे रसभे षड्राशित- ल्येऽर्कभे द्वादशराशितुल्ये व्यतिपातवैधृताह्वयौ क्रमात्स्यातां यत्र षड्राशितुल्यो योगस्तत्र व्यतिपातनामा पातः यत्र द्वादश- राशितुल्यो योगस्तत्र वैधृतनामा पातः स्यात्, क्व सति समाय- नत्वे सति यदा सूर्यचन्द्रयोः समक्रान्ती भवतस्तदेत्यर्थः । समक्रान्तित्वे पातसम्भवो ज्ञेय इत्यर्थः । तदूनेति-तयोर्यो गे षड्राशिभ्स्तथा द्वादशराशिभ्यश्चोना अधिका वा लिप्ताः CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri