पृष्ठम्:करणकुतूहलम्.djvu/१०९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

o (१०४) करणकुतूहलम् । नतांशाः साध्याः नतांशैहींना नवति९० रुन्नतांशाः स्युः।अथ नतांशानामुन्नतांशानां च पृथक् २ ज्यां साधयेत् । अथ नतां- शज्यका स्वकीयेन खेटात्पातयुतादित्यादिनागतेन स्फुटशरे- णांगुलादिना गुणिता पुनर्गुणैस्त्रिभिर्गुणितोन्नतांशज्यया भक्ता लब्धं कलादिकं फलं शरनतांशानामेकदिक्त्वे स्फुटग्रहे धनं कुर्याद्भिन्नदिक्त्वे हीनं कुर्यात्प्राच्यां दिश्यथ प्रतीच्यामु- दयास्तौ तदा व्यस्तं शरणतांशयोरेकदिक्त्वे हीनं भिन्नदिक्त्वे. धनं कुर्यादेवं जातो दृष्टखचरो ग्रहः स्यात्तस्य दृक्कर्मग्रहस्य तात्कालीनस्फुटसूर्यस्य च मध्ये योऽल्पः स रविः प्रकल्प्यः, अथ यो ग्रहोऽधिकस्तत्तनुर्लयं प्रकल्पनीयं तयोः कल्पितयो- रर्कलग्नयोरन्तरे घटिकाः, प्राग्वत्कार्याः, अर्कस्य भोग्यस्त- नुभुक्तयुक्त इत्यादिना साध्याः। प्रतीच्यान्तु राशिषट्कयुक्तयो रविदृग्ग्रहयोर्घटिकाः साध्यास्ता घटिका रसैर्ह्रताः कालां- शका इष्टा भवन्ति त इष्टकालांशाः प्रोक्तेभ्यः पूर्वपाठपठित- कालांशेभ्यो यद्यधिकास्तदोदयो गतः न्यूनाश्चेत्तदा गम्यः । अस्तमयस्तु व्यस्तः यदीष्टकालांशा अधिकास्तदास्तो गम्यः न्यूनास्तदास्तो गतः अथ प्रोक्ता ये कालांशास्तेषामिष्टकालां- शानां चान्तरकलाः खाभ्नाग्निभिः शतत्रयेण गुणिताः सायन- सूर्याधिष्ठितराशिस्वोदयपलैर्भक्ताः प्रतीच्यां तु सूर्याधिष्ठि- तराशेः सप्तमराश्युदयपलैर्मक्ता लब्धकला ग्रहस्य रवेश्च भुक्त्यन्तरेण भक्ताः यदि ग्रहो वक्री तदा भुक्तियोगेन भक्ता CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri