पृष्ठम्:कप्फिणाभ्युदयं महाकाव्यम्.pdf/१७५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

एकादशः सर्गः अथ सुदृशा प्रियप्रणयविभ्रमभावनया सममुदियाय नैशसुरतोत्सवसस्पृहता । रविरपि सञ्जहार करडम्बरमस्बरतः फलमभिवाञ्छितानुपभावि हि भव्याधियाम् ॥ १॥ अवसितवासरावसरनृत्यरसोल्लसित- त्रिपुररिपूत्तमाङ्गतलताडनतो विधुतम् । निरवधि वेधसः कनकधाम समिद्धमधो व्यपगतखण्डमण्डभित्र मण्डलमुष्णरुचः ॥२॥ दिशि दिशि प्रवृद्धये प्रहितमम्बुजकोशरुचि- प्रसृतकरो दधत् कनकधातुरसस्य तुलाम् । वपुरतिमन्दमाप्य रविरास्थित पात्रमयो वणिगिव मण्डलेऽथ समघट्टयदंशुधनम् ॥ ३॥ अधिकविषक्तकूबरयुगानमर्दश(स)भुवो विचलितकर्णचामरतिरोहिततान्तदृशः। कथमपि नातिकर्कशखलीनधृता विद्युतः सवितुरवातरन्नपरशैलशिरस्तुरगाः ।।४।। 9-13. Not found in M3, And N begins with 12b, one folie being loss,