पृष्ठम्:कप्फिणाभ्युदयं महाकाव्यम्.pdf/१७४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

वाम सर्गः अभिकबरि विलासवासनायै पवनधुतः सुदृशां क्षणप्रणीतः। जयमिव विमृशन् कः स्वकान्तेः समसरदच्युत एव धूपधूमः ॥ ३७॥ प्रियकरमलनान्नितम्बिनीनां वपुषि मनोरमकाम्यकान्तिकान्ते । भुकुर इव मुहुर्मुहुः प्रमुष्टे प्रतिफलितं ददृशे वपुः स्मरस्य ॥ ३८ ॥ उन्मेषिभूषणरणज्झणनादवाघ- नृत्यत्स्तनार्पितमनोहरहारलेखा: उहुर्विचित्रशुचिवर्णककाम्यभासः स्मेरां श्रियं स्मरमहोत्सवभूमयस्ताः ।। ३९ ।। इत्याहिताविवरवारिकृताभिषेका- स्ताः शीतमित्यथ सवेपथवो वदन्त्यः यूनां परप्रणयशालिषु मानसेषु प्राक् प्राविशंस्तदनु दोर्दुमपञ्जरेषु ॥४०॥ इति श्रीकप्फिणाभ्युदये महाकाव्ये सलिलक्रीडावर्णनो नाम दशमः सर्गः। 370M अघि tor अमि द, समरखक्षत सिमंसरदच्युत 38bM गयlor काम्य: In the colophon M3 kasi for en