पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/४६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५६२ कथासरित्सागरः [ आदितस्तरङ्गः १ तत्कालदृष्टां दिव्यां तु कन्यां पश्यामि नेह ताम् । अप्राप्तया तया चेह देहं त्यक्ष्यामि निश्चितम् । इत्युक्ते तेन सख्यस्तामूचुः पद्मावतीं रहः। शृणु नूनमिह स्वप्ने दृष्ट्वा त्वामयमागतः । त्वद्दर्शनेनैव विना त्यक्तुं प्राणान्समीहते । तन्निगूढस्थिता एव पश्यामो देवि निश्चयम् । इति च्छन्नासु तास्वत्र स्थितास्वन्तः प्रविश्य सः । मुक्ताफलध्वजो देवमर्चयित्वा विनिर्ययौ । निर्गत्य यावत्कुरुते भक्तितस्त्रिः प्रदक्षिणम् । तावत्स च सखा चास्य जातिं सस्मरतुनिजाम् । हर्षांच पूर्ववृत्तान्तं यावदन्योन्यमाहतुः । तावत्पद्मावती दृष्टिगोचरं सा ययौ तयोः ।। मुक्ताफळध्वजः पूर्वजन्मवृत्तं स्मरंश्च सः । तां दृष्णैव तमाह स्म वयस्यं हर्षनिर्भरः । दृष्ट्वा सेयमिह स्वप्ने देवी पद्मावती मया । दिष्ट्या प्राप्ता च तदिमामाशु संभावयाम्यहम् । इत्युक्त्वोपेत्य साश्रुस्तामवोचद्देवि माधुना । कापि यासीरहं मुक्तफलकेतुः स ते प्रियः । दृढव्रतस्य शापेन मानुषीभूय संस्मृता । जातिर्मयाथेत्युक्त्वा तामैच्छदश्लेष्ठमुत्सुकः । सा तूद्रान्ता तिरोभूय तत्रासीत्साश्रुलोचना । सोऽपि राजसुतोऽपश्यंस्तां मोहापतद्भुवि । ततः सदुःखमाकाशे तद्वयस्यो जगाद सः । यदर्थं स तपःक्लेशो देवि पद्मावति त्वया॥ अनुभूतः कथं प्राप्तं तमेतं नाभिभाषसे । अहं संयतकः सोपि वयस्यो दयितस्य ते । तद्युष्मदर्थं शप्तस्य किं मे नालपसि प्रियम् । इत्युक्त्वा स समाश्वास्य तमुवाच नृपात्मजम् । तथानुरागोपगता दैत्यराजसुता त्वया । यत्यक्ता तस्य पापस्य तवागतमिदं फलम्॥ तच्छुत्वा सा सखीराह च्छन्ना पद्मावती तदा । ऽणुतासुरकन्यासु न किलायं प्रवर्तते । ततः सख्योऽपि तामूचुः सर्वे संवादि दृश्यते । किं न स्मरसि यत्तेन शापकाले प्रियेण ते ॥ मानुष्ये मे मनोऽन्यत्र मा गात्पद्मावतीं विना । इत्यार्थतो वरस्तस्मान्मुनेः पूर्वं तपोधनात् ॥ तत्प्रभावादयं नूनमन्यत्रीषु न रज्यते । श्रुत्वैतद्राजपुत्री सा संजज्ञे संशयाकुला । मुक्ताफलध्वजः सोऽपि दृष्टनष्टप्रियस्ततः । चक्रन्द हा प्रिये पद्मावति किं नैतदीक्षसे । विद्याधरत्वे यश्प्राप्तः शापो मेघवने मया। त्वमिह चाद्याहं मृत्थं प्राप्स्याम्यसंशयम् । इत्यादि क्रन्दितं तस्य श्रुत्वा पझावती स खः । प्राह सर्वाणि संवादीन्यभिज्ञानानि यद्यपि । तथापि परम्पर्येण श्रुतान्येतानि जातुचित् । आभ्यां भवेयुरिति मे न चेतोऽभ्येति निश्चयम् । तन्नार्तमस्य शक्नोमि वचः श्रोतुं जाम्यहम् । तद्योयतनं तावत्पूजाकालव तत्र मे ।। इत्युक्त्वा खसखीका सा पद्मावयम्बिकाश्रमम् । तज्जगामार्चयित्वा च देवीमेवं व्यजिज्ञपत् । स सिद्धीश्वरदृष्टश्चेरसत्यं पूर्वप्रियो मम । तत्तथा कुरु येन स्याच्छीघ्रमेतेन संगमः । इति पद्मवतो यावरसाकाङ्का तत्र तिष्ठति । शुक्ताफलाध्वजस्तावरसोऽपि सिद्धेश्वरे स्थितः । पूर्व संयतकं मित्रं महाबुद्धिमुवाच तम् । जाने सा स्वास्पदं याता तत्रैौर्यायतनं सखे । तदेहि यावतयैवेत्युक्त्वारुह्य मनोगतौ । तस्मिन्विमाने सोऽभ्यागादम्पिकाश्रममेव तत् । दूरादृष्वावतीर्णं तं विमानेन नभस्तलात् । सरूयः पद्मावतीमूचुर्देवि पश्येदमद्भुतम् । स इहाण्येष दिव्येन विमानेनागतः किल । मानुषस्यापि दिव्योऽस्य प्रभावः कथमीदृशः । ततः पद्मावती स्माह सख्यः स्मरथ किं न तत् । यत्स शापप्रदातास्य मया शप्तो दृढव्रतः । मानुषत्वेऽवतीर्णस्य वाहनं कामरूपधृत् । इच्छानुगतमस्यैव भविष्यति भवानिति । तन्तेन मुनिशिष्येण वाहनेनैष निश्चितम् । विमानरूपं दधता स्वेच्छं भ्रमतिं सर्वतः । एवं तयोक्ते सख्यस्तामूचुरेवमवैषि चेत् । तन्न संभावयस्येतं कस्माद्देवि किमीक्षसे । एतत्सखीवचः श्रुत्वा पद्मावत्यवदत्पुनः । एवं संभाव्यते सख्यो निश्चयोऽद्यापि नास्ति मे । सत्यं स एव यदि वा भवत्येष तथापि मे । अभिगम्योऽन्यदेहस्थः स्वदेहानाश्रितः कथम् । तच्छन्ना एव पश्यामस्तावंस्येह चेष्टितम् । इत्युक्त्वा राजपुत्री सा छनैवासीत्सखीवृता । तावत्तत्रावतीयैव विमानादम्बिकाश्रमे । मुक्ताफलाध्वजः सोत्को वयस्यं तमुवाच सः ।