पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/३८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४८४
[ आदितस्तरङ्गः १०
कथासरित्सागरः ।

एवं सभायां क्रुद्धायां स निर्गत्य सुविग्रहः। दूतो मृगाङ्कदत्तस्य पार्श्व स्वकटकं ययौ ॥
तस्मै स कर्मसेनोक्तं समित्राय शशंस तत् । सोऽप्यादिदेश तच्छुत्वा यात्रां सैन्ये नृपात्मजः ॥ १
ततः स्वाम्यादेशप्रबलपवनापातविधुतो बलम्भोधिधवन्नरतुरगमातङ्गमकरः ॥
सपक्षाणां तन्वन्मनसि परितोषं क्षितिभृतां स संप्राप क्षोभं प्रतिभयकरं कातरनृणाम् ॥
        क्षितिमथ बिदधद्वलाश्वलालागजमदकर्दमितां मृगाङ्कदन्तः ।
        बधिरितभुवनः स तूर्यनादैरुदचलदुज्जयिनीं शनैर्जयाय ॥

इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे शशाङ्कवतीलम्बके पञ्चत्रिंशस्तरङ्गः ।


_____


षत्रिंशस्तरङ्गः


ततः स विन्ध्यमुल्लङ्ग्य प्राप संनद्ध सैनिकः । मृगाङ्कत्तः सीमान्तमुज्जयिन्याः सुहृद्युतः ॥ १
तद्दृ कर्मसेनोऽपि राजास्य सबलोऽग्रतः । धीरो युद्धाय संनह्य नगर्या निरगात्ततः ॥ २
निकटीभूय चान्योन्यदर्शिन्योरुभयोस्तयोः । तवसेनयोः प्रववृते सङ्गमो वीरहर्षणः ॥ ३
नृसिंहनादवित्रस्तभग्नल्लीबासुराकुलः । सोऽभूद्धिरण्यकशिपोर्निवास इव संगरः ॥ ४
संतता विनिकृन्तन्तो घना गगनगामिनः । सुभटेष्विषवः पेतुः सस्येषु शलभा इव ॥ ५
खङ्गहतेभकुम्भोत्थो बभौ मुक्ताफलोत्करः । संरम्भत्रुटितो हार इव तत्समरश्रियः ॥ ६
तीक्ष्णकुन्ताप्रदशनं प्रस्ताश्वनरकुञ्जरम् । कृतान्तस्येव वदनं तद्विरेजे रणाजिरम् ॥ ७
उत्पेतुर्भल्लनानि शिरांसि भुजशालिनाम् । दिवि दत्तोध्वंझम्पानि दिव्यस्त्रीरिव चुम्बितुम् ॥ ८
कबन्धा ननृतुश्चात्र सुभटानां पदे पदे । निर्भासितोत्तमस्वामिसंगरप्रमदादिव ॥ ९
एवं च पञ्चदिवसान्वहच्छोणितनिम्नगः । आसीकरङ्गकूटाख्यः स शूरान्तकरो रणः॥ १०
पवमेऽह्नि रहः सायं तं समेतं स्वमन्त्रिभिः । मृगाङ्कदत्तं श्रुतधिर्विप्रोऽभ्येत्य जगाद सः॥ ११
युष्मासु समरव्यप्रेष्वितो भिक्षुकरूपिणा । गत्वा निराकुलद्वारां प्रविश्योजयिनीं मया ॥ १२
निकटाप्यदृश्येन भूत्वा विद्याप्रभावतः। यन्विष्टं यथावत्तच्छुणु देव वदामि ते ॥ १३
यदैव कर्मसेनोऽसौ राजा युद्धाय निर्गतः । तदैवानुज्ञया मातुः सा शशाङ्कवती गृहात् ॥ १४
निर्गत्य तत्पुरीवर्तिगौर्यायतनमाश्रिता । तामाराधयितुं देवीं श्रेयोऽर्थं समरे पितुः ॥ १५
तत्रस्था च रहस्येकां सखीमाप्तामुवाच सा । मत्कृते सखि तातस्य विग्रहोऽयमुपागतः ॥ १६
आक्रान्तश्चार्पयेदेष तस्मै राजसुताय माम् । गणयन्ति न राज्यार्थेऽपत्यस्नेहं महीभुजः ॥ १७
न च जानेऽनुरूपः किं स मे राजसुतो न वा । कामं हि मृत्युमिच्छेयं न विरूपमहं पतिम् ॥ १८
मन्ये रूपाभिसंपन्नो दरिद्रोऽपि वरं पतिः । न विरूपः पुनः कृत्स्नपृथिवीचक्रवर्यपि ॥ १९
तत्कीदृगिति गत्वा तं विलोक्यागच्छ सैन्यतः। प्रज्ञानेन च नाम्ना च शुभे चतुरिका ह्यसि ॥ २०
एवं सखी तयोक्ता सा युक्त्या कटकमेत्य नः । त्वां विलोक्य विभो गत्वा राजपुत्रीमुवाच ताम् ॥ २१
किमन्यत्सखि सा जिह्वा जाने नास्त्यपि वासुकेः। या शक्ता गदितुं तस्य रूपं 'राजसुतस्य तत् ॥ २२
ब्रवीमि पुनरेतावद्यथा नान्या समास्ति ते । नारी रूपेण मनुजस्तथा नान्योऽस्ति तत्समः ॥ २३
अत्यल्पं धिङ योक्तं वा मन्ये ह्यस्मिञ्जगत्रये । न सिद्धो नापि गन्धर्वो न देवोऽप्यस्ति तादृशः ॥ २४
एवं सखीगिरा तस्यास्त्वयि न्यस्तं च मानसम् । शशाङ्कवत्याः कामेन कीलितं च समं शरैः ॥ २५
तरक्षणात्प्रभृति श्रेयस्कामा तव पितुश्च सा । कृशीभवन्ती तपसा स्थिता त्वद्विरहेण च ॥ २६
तद्भुतं निशि गत्वाथ हृत्वा गौर्याश्रमात्ततः । विजनादानयत तां राजपुत्रीमलक्षितम् ॥ २७
यात मायाबटोरस्य गृझनेते नृपस्ततः । पश्चात्प्रकोपं रक्षित्वा तत्रैष्यन्ति समं मया ॥ २८
निवर्ततामिदं युद्धं मा स्म भूसैन्य संक्षयः। अस्तु वः कुशलं देहे राज्ञस्त्वच्छशुरस्य च ॥ २९
गतिरेषा ह्यगतिका युद्धे प्राणापणेन यत् । उपायेषु जघन्योऽयमुपायो गीयते बुधैः ॥ ३०