पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/३७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४७२
[ आदितस्तरङ्ग
कथासरित्सागरः ।

ततः प्रवहणारूढो हंसीपमवाप तत् । दिनैर्मन्दारदेवस्य नृपतेस्तस्य मन्दिरम् ॥
द्वाःस्थैरावेदितस्तत्र प्रविश्यान्त विलोक्य सः। यथावृत्तं नृपं दूतो दत्तकोशळिकोऽभ्यधात् ॥
संविष्टं ते महाराज महासेनेन भूभुजा । देहि सुन्दरसेनाय मत्पुत्राय निजां सुताम् ॥
पटे च लिखिता सा हि कात्यायन्यभिधानया । तापस्या कन्यकारत्नमित्यानीयेह दर्शिता ॥
रूपानुरूप्याच्चास्माभिर्जातेिच्छैलिखितं पटे । रूपं सुन्दरसेनस्याप्यत्र प्रहितमीक्ष्यताम् ॥
एष चासदृशो रूपे भार्या स्वसदृशीं विना । नेच्छयुद्ध।हमेका च त्वत्सुतास्यानुकारिणी ॥
इति संदिश्य हस्ते मे पटो राज्ञयमर्पितः । दृश्यतां युज्यतां देव मधुना माधवी लता ॥
एतदूतवचः श्रुत्वा हर्षादानाययनृपः। सुप्तां स मन्दारवतीं देवीं तस्याश्च मातरम् ॥
ताभ्यां सह तमुद्धाट्य दृष्ट्या चित्रपटं च सः । तुल्यो मदुहितुः पृथ्व्यां नास्तीत्येतन्मदं जहौ ॥
जगाद चामुना राजपुत्रेण यदि युज्यते । तदस्या रूपनिर्माणं सुतायाः सफलं मम ॥
अनेन रहिता एषा राजते नानयाप्यसौ । का ह्यडिजनी विना हंसं कश्च हंसोऽब्जिनीं विना ॥
इति राज्ञोदिते राज्यां श्रद्धावत्यामतीव च । सा मन्दारवती जज्ञे सद्यो मदनमोहिता ॥
तस्थौ चित्रपटन्यस्तनिश्चलोत्फुल्ललोचना । अधिष्ठितेव सुप्तेव विनिद्रा लिखितेव च ॥
ततो मन्दारदेवस्तां सुतां दृष्ट्वा तथाविधाम् । अङ्गीकृत्यैव तद्वनं स तं दूतमपूजयत् ॥
अन्येद्युः प्राहिणोत्तं च प्रतिदूतं च स स्वकम् । विी कुमारदत्ताख्यं महासेननृपं प्रति ॥
जगाद चोभावपि तौ गत्वा तमलकेश्वरम् । मम वाक्यान्महासेनं राजानं बतं द्रुतम् ॥
सौहार्देन मया तावत्कन्या दत्ता तदुच्यताम् । त्वत्पुत्रः किमिहायातु किं कन्यात्र प्रहीयतम् ॥
इति राज्ञोक्तसंदेशौ ततः प्रवहणेन तौ । सह प्रययतुर्दूतावठिधमार्गेण सत्वरम् ॥
शशाङ्कपुरमासाद्य ततः स्थलपथेन तौ । प्रापतुस्तां पुरीमृद्धमळकमळकामिव ॥
उपेत्य राजसाथ प्रविश्य च यथोचितम् । कृतादरं महासेनं राजानं तावपश्यताम् ॥
तं च सन्दरदेवोक्तं प्रतिसंदेशमूचतुः । राज्ञे तस्मै स च श्रुत्वा तुष्टस्तौ द्वावपूजयत् ॥
पृष्ट्वा च कन्याजन्मॐ तस्मात्तत्पितृदूततः। लनं विवाहे पप्रच्छ सूनोः स गणकान्नृपः ॥
ते च मासत्रये शुक्लपञ्चम्यां मासि कार्तिके । लग्नं तस्मै वदन्ति स्म शुभं वध्वा वरस्य च ।
तस्मिल्लले विवाहं च सूनोश्च प्रेषणं तदा । तस्मै मन्दारदेवाय संदिदेशालकापतिः ॥
हस्ते कुमारदत्तस्य तदूतस्यापरस्य च । चन्द्रस्वाम्यभिधानस्य स्वस्य लेखेऽभिलिख्य सः ॥
तौ च दूतौ ततो गत्वा देवं दत्वा तथैव च । हंसद्वीपेश्वरस्याग्रे तस्य सर्वं शशंसतुः ॥
सोऽपि राजा तथेत्युक्त्वा चन्द्रस्वामिनमर्चितम् । व्यसृजत्तं महासेनदूतं स्वस्वामिनोऽन्तिकम् ॥
प्रत्यागतेऽलकां तस्मिन्नुक्तकार्यविनिश्चये । लग्नप्रतीक्षास्ते तस्थुः सर्वेऽप्युभयपक्षयोः ॥
तावच्च इंसद्वीपे सा प्राक्षिचत्रपटदर्शनात् । जातानुरागा मन्दारवती तं चिरभाविनम् ॥
विवाहळनं बुङ्गा तं तावकाठक्रमासह । प्रेयस्यत्युत्सुका गाढं संतेपे मदनाग्निना ॥
अङ्गारवर्षमझे च चन्दनैरपि लेपनम् । पद्मिनीपत्रशय्यापि संतप्तसिकतास्तरः ॥
दीप्रदावानलशिखाः सुधांशोरपि रश्मयः । तस्याः सुन्दरसेनोस्कचेतसो बत जज्ञिरे ॥
मौनस्था वाजताहारा विरहव्रतमाश्रिता । आकुळाप्तसखीपृष्टा छुच्छादेवमुवाच सा ॥
सखि दूरे विवाहो मे न च शक्नोमि तं विना । वरं प्रतीक्षितुं कालमलकाधिपतेः सुतम् ॥
दूरो देशश्च कालश्च विचित्रा च गतिर्विधेः । तदत्र मध्ये को वेत्ति किं कस्येह भविष्यति ॥
तन्मे मर्तव्यमेवेति वदन्ती विरहातुरा । जगाम मन्दारवती सद्यः सा विषमां दशाम् ॥
तद्वद्वा तसखीवक्त्रात्तां च दृष्ट्वा तथाविधाम् । सभार्यो मन्त्रयामास तत्पिता सह मन्त्रिभिः॥
राजा स मित्रमस्माकं महासेनोऽळकापतिः। एषा च मन्दारवती कालं सोदुमिहाक्षमा ॥
तका त्रपा यथा चास्तु तत्रैव प्रेष्यतामियम् । कान्तान्तिकस्था धृत्या हि कालक्षेपं सहिष्यते ॥