पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/३३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४३८
[ आदितस्तरङ्गः ८९
कथासरित्सागरः ।

प्रहृष्टैर्बान्धवैः साकं प्रविश्य निजमन्दिरम् । लब्धपुत्रवश्चक्रे स्वानन्दचितमुत्सवम् ॥
ज्ञातवृत्तान्ततुष्टश्च तदैवानाय्य तं नृपः । एकवीरं वीरकेतुश्चौरं सेनापतिं व्यधात् ॥
चौर्यान्निवृत्तोऽथ स तां परिणीय वणिक्सुताम्। एकवीरः सुखं तस्थौ मार्गस्थो राजसंमतः ॥
             इति कथयित्वा स कथां वेताळ दत्तपूर्वशापभयम् ।
             अंसस्थितस्त्रिविक्रमसेनं पप्रच्छ तं क्षितिपम् ॥
             राजन्ब्रूहि सपितृकामुपस्थितां तां वणिक्सुतां दृष्ट्वा ।
             चौरेण शूलपृष्ठे रुदितं हसितं च किं तेन ॥
             अथ राजा प्रत्ययद्वदितं चौरेण दुःखतस्तेन ।
             नास्यानृण्यमकारणबन्धोर्यातोऽस्मि वणिज इति ॥
             आश्चर्यतश्च हसितं किमियं कन्या नृपान्वन्हित्वा ।
             मय्यस्मिन्ननुरक्ता स्त्रीचित्तमहो विचित्रमिति ॥
             इत्युक्तवाक्यस्य महीभृतोंऽसान्मायी स्वशक्त्यैव तदा जगाम ।
             स्वं धाम वेतालवरः स राजाप्येतं पुनः पूर्ववदन्वगच्छत् ॥

इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे शशाङ्घतीलम्यक एकविंशस्तरः।


_____


द्वाविंशस्तरङ्गः


( पञ्चदशो वेतालः।)


ततो गत्वा पुनः प्र|प्य वेतालं शिंशपातरोः। स त्रिविक्रमसेनस्तमादायोद्चलत्पुनः ॥ १
आयन्तं तं च राजानं स वेतालोंऽसपृष्ठगः । जगाद भूयोऽप्येतां ते राजन्वच्मि कथां श्रुणु ॥ २
अनेपालविषये नाना शिवपुरं पुरम् । यथार्थनमा तत्रासीद्यशःकेतुः पुरा नृपः ॥ ३
स मन्त्रिणि न्यस्य भरं प्रज्ञासागरसंज्ञके । चन्द्रप्रभाख्यया देव्या साधु भोगानिसेवत ॥ ४
कालेन तस्यां देव्यां च तस्याजायत कन्यका । राज्ञः शशिप्रभा नाम जगनेत्रशशिप्रभा ॥ ५
क्रमेण यौवनस्था सा मधुमासे कदाचन । ययौ यात्रोत्सवं द्रष्टुमुद्यानं सपरिच्छदा ॥ ६
तत्रैकदेशेऽपश्यत्तां कुसुमावचयोद्यताम् । उत्क्षिप्तबाहुलतिकालक्षितैकपयोधराम् ॥ ७
प्रसूनवृन्तविगलत्संदंशकरशोभिनीम्। आढ्यपुत्रो मनःस्वामी नाम यात्रागतो द्विजः ॥ ८
स तया दृष्टया सद्यो हृतस्य मनसो युवा । मनःस्वास्यपि नैवाभूत्स्वामी मदनमोहितः ॥ ९
मार्गणानां कृते किंस्विद्रतिरेषा सनोभुवः । वसन्तसंभृतानीह पुष्पाण्युचिनुते स्वयम् ॥ १०
किं वार्चयितुकामेयं माधवं वनदेवता । इति संचिन्तयन्तं तं साप्यपश्यतृपात्मजा ॥ ११
दृष्टमात्रे च सा तस्मिन्साने नव इव स्मरे । न पुष्पाणि न चङ्गानि सोत्का नामानमस्मरत् ॥ १२
इत्यन्योन्यंनवप्रेमसरसौ यावदत्र तौ । तिष्ठतस्तावदुदभूद्धाहहेति महारवः ॥ १३
किमेतदिति चोत्क्षिप्तकंधरं पश्यतोस्तयोः। आयादत्रोपलब्धान्यराजगन्धोत्थया रुषा ॥ १४
भग्नानो विनिर्गत्य मन्तो मार्गद्वमान्रुजन् । पतिताधोरणो धाउँल्लम्बमानाङ्गशः करी ॥ १५
ततः परिजने त्रस्तविद्रुते तां ससंभ्रमम् । राजपुत्रीं प्रधाव्यैव दोभ्यमुत्क्षिप्य चैककाम् ॥ १६
अत्रैः किंचित्कृताश्लेषां भयप्रेमत्रपाकुलाम् । निनाय स मनःस्वामी सुदूरं गजगोचरात् ॥ १७
अथागतैः परिजनैः स्तुवद्भिस्तं द्विजोत्तमम्। मुहुर्विवृत्य पश्यन्ती सा निन्ये निजमन्दिरम् ॥ १८
तत्र तस्थौ तमेवार्ता स्मरन्ती प्राणदायिनम् । स्मराम्निपुटपाकेन पच्यमाना दिवानिशम् ॥ १९
सोऽप्युद्यनान्मनःस्वामी तदा तस्मादनुव्रजन्। स्वान्तःपुरप्रविष्टां तां दृष्ट्वा सोको व्यचिन्तयत् ॥ २०
नैतां विनाधुना स्थातुं जीवितुं वाहमुत्सहे । तन्मे श्रीमूलदेवोऽत्र धूर्तः सिद्धो गुरुर्गतिः ॥ २१
इति संचिन्स्य कथमप्यस्मिन्नवसिते दिने । प्रातर्ययौ गुरोस्तस्य मूलदैवस्य सोऽन्तिकम् ॥ २२